________________ . मलकारराधये 'विषयस्यापहवेऽपह्नतिरिति अलहारसर्वस्वकारः / 'कलयति विषयेऽपहवमारोप्यं यत्र भासते 'सुतराम् / आहुरपह्नुतिमेतो बन्धच्छया प्रयी चास्याः // ' इस्येकावळीकारः। 'यत्रापहुनुत्यविषयं विषयी प्रतिपाद्यते / अपह्नुतिर्द्विधा मुख्यानिषेधाच्च छलादिति // ' इति / साहित्यचिन्तामणिकारः / - 'निषिद्ध्य विषयं साम्यादन्यारोपे अपह्नुतिः।' इति विद्यानाथः / तत्र काव्यप्रकाशकारसाहित्यचिन्तामणिकारलक्षणे तावन्न युक्ते / आरोप्यापहनुतावव्याप्तेः / नन्वशब्दार्थविषयिणं प्रसाध्य, प्रकृतशब्दार्थविषयनिषेधोऽपह्नुनिरित्यत्र तात्पर्यमिति चेत् तर्हि अपड्नुत्यारोपेऽन्याप्तिः / ननु 'प्रकृतं निषिध्य प्रसाधनमन्यत्प्रसाध्य प्रकृतनिषेधो वा / उभयोरन्यतरोऽपहव' इति विवक्षितमिति चेत् उच्यते / अन्यताशब्देनैकैकविवक्षायां प्रागुक्तरीत्या एकस्मिन्नव्याप्तिः। उभयविवक्षायाम् असंभवः / ननु तदुभयव्यतिरिक्तव्यतिरिक्तत्वमन्यतरशब्दार्थ इति चेदुच्यते / अत्रापि द्वितीयव्यतिरिक्तशब्देन एकैकविवक्षायाम् उभयविवक्षायां वा प्रागुक्तदोषानतिवृत्तेः / किञ्च 'नायं वीरः पिशाच' इत्यसाम्यनिबन्धनापहवेऽप्यतिव्याप्तिः / ननु साम्यादिति विशेषणान्नोक्तदोष इति चेत् प्रमेयत्वादिना साम्यस्य प्रागुक्तापहवेऽपि सत्वात् / नितराम्-आ 'अन्यप्रसाधनम्-व 'न च साम्याद्विशेषणात्-च