SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ मलङ्ककारराघवे राघवं दण्डकारण्ये वासवोपलकोमलम् / / विलोक्व ननृतुर्नीलमेघबुध्या कलापिनः || इति प्रान्तिमदलंकारेऽ'तिव्याप्तेः / तत्र 'वाच्यस्याप्यारोप्यमाणस्य प्रकृत. नर्तनाद्युपयोगित्वात् / ननु आरोप्यमाणस्य विषयात्मतयावस्थितस्य प्रकृतोपयोगित्वे परिणाम इति न प्रान्तिमत्यतिव्याप्तिः। तत्रारोप्यमाणस्य विषयात्मना अवस्थानासम्भवात् , विषयस्य तत्र 'पिहितत्वात् / अत एव सापहवेऽप्यतिव्याप्तिरिति चेत् न / तत्रापि विषय सामान्यांशतया स्थितस्यै. वारोप्यमाणस्य प्रकृतोपयोगित्वात् / 'ननु विषयविशेषांशात्मतया 'अवस्थितस्यारोप्यमाणस्येति लक्षणे विवक्षितमिति चेन्न / सेयं वसन्तलक्ष्मीः किं किं वा काननदेवता / इति सन्दियामाना सा मुनीनां मुदमातनोत् || इति सन्देहालंकारे अतिव्याप्तिः / तत्र सन्दिग्धविषयविशेषांशात्मतयाव"स्थितस्य आरोप्यमाणस्य प्रकृतोपयोगित्वात् / ननु निर्णीतविषयविशेषांश'तया अवस्थितस्येति विवक्षितमिति चेन्न / - रामं सुरद्रुमं केचित् वर्णयन्त्यपरे स्मरम् / अन्ये महेन्द्रमपरे पूर्णेन्दु कविपुङ्गवाः // 'अतिव्याप्तिः-त,न 'अवाच्यस्य-आ. 'पिहितत्वात् अपहवेऽप्यतिव्याप्तिरिति चेन्न-न 'सामान्यांशात्मतया-त,न / 'नानाविषय-न स्थितस्य-त 'स्थितस्यैवारोप्यमाणस्य-न ''शतया' इत्यरभ्य 'प्रकृतोपयोगित्वात् ' इत्यन्तो भागः 'आ'पतौ लुप्तः /
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy