SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ 60 मलकाररावये अत्र रामकिरीटमणिगणः प्रकाशलक्ष्म्या आतपश्रीत्वेन रूपणं 'स्वचक्रस्य चक्रवाकत्वेन रूपणं प्रति हेतुः / तच्च श्लिष्टशब्दनिबन्धनं केवलपरंपरितम् / एकवारमेव रूपणात् / () शिलष्टमालापरम्परितं यथा - भाति भ्राम्यबहुलतमसा भेदने ब्रह्मबुद्धिः संपश्यध्वं झाडिति कमलोल्लासने "सौरकान्तिः / आशापूर्तावनिमिषतरुप्रोल्लसत्पुष्पमाला विश्वव्याप्ता रघुपतिशिरोरत्नकोटीर कान्तिः // अत्र रामकिरीटकान्तेः ब्रह्मविद्यात्वादिरूपणं 'बहुळतमांस्येव बहुळतमांसि इत्यादि'रूपणे कारणम् / . (vi) अश्लिष्टकेवलपरम्परितं यथा - रामोदयगिरौ रत्नकिरीटरविमण्डलम् / दृश्यते भानुजालेन प्रकाशितदिगम्बरम् || अत्र रामस्य उदयाचलत्वेन रूपणं, किरीटस्य 'रविमण्डलत्वेन रूपणं प्रति कारणम् अश्लिष्टनिबन्धनम् / (vii) अश्लिष्टमालापरम्परितं यथा - उद्यद्भुजाविटपकोमलपल्लवानि हस्तप्रफुल्लदरविन्दमरन्दधाराः / 1 'स्वचक्रस्य चक्रवाकत्वेन रूपणम्' इति भागः 'आ' प्रतौ नास्ति / 'सारकान्तिः-आ ' 'मन्दाक्रान्तावृत्तम् ' 'मन्दाक्रन्ता जलधिषडगैः म्भौ नती ताद्गुरू चेत् ' इति तल्लक्षणं वृत्तरत्नाकरे / * ' बहुळतमांस्येव' इति तु 'न' प्रतो नास्ति / (i) निरूपणे-त (ii) रूपणकारणम्-न 'रविमण्डलस्वरूपणं-आ .
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy