________________
274
अलपकारराघवे
अत्र पापान्यहरन् त्वं प्रकीर्णकिरणव्रातः चण्डभानुरिवेत्युपमानोपमेययोः वैसादृश्यम् ॥
१२) यत्रोपमानमप्रसिद्ध तदप्रसिद्धोपमम् ॥ यथा
भगवन् ['पादचन्द्रस्ते] राम जीयादहनिशम् । त्वत्सेवया प्रशाम्यन्ति सद्यस्तापा ममाखिलाः ॥ २९१ ॥
अत्र पादस्य चन्द्रौपम्यं कविजनाप्रसिद्धमिति अप्रसिद्धोपमता ।। . १३) हेतु विना कृतार्थकथनं हेतुशून्यम् ॥ यथा
मया नानाविधापानि रचितानीह जन्मनि । 'उपेक्षा तमिरासेऽध नोचिता रघुनन्दन ॥ २९२ ॥
अत्र उपेक्षा नोचिता इत्यत्र परमकारुणिकत्वादिहेतु!क्त इति हेतुशून्यता ॥ १४) अलङ्काररहितं निरलकारम् ॥ यथा
उत्थापयन् कामदण्डं परनायुचितं तथा । काल नयति रामेह त्वत्सेवाविमुखो जनः ॥ २९३ ॥
' मूलमातृकाया रामचन्द्रः इति वर्तते। विवरणे 'अत्र पादस्य
चन्द्रौपम्य कविजनाप्रसिद्धमिति अप्रसिद्धोपमता' इति कथनानुसारात् 'पादचन्द्रम्ते' इति पाठः स्वयं स्वीकृतः । २ तन्निरासे तवोपेक्षा नोचिता रघुनन्दन-त 3 परस्त्रीयोनिचिन्तया कालं-त