________________
xxviii
तञ्जावूरुपुस्तकमाण्डागारस्य अन्या हस्तप्रतिः' तालपत्रात्मिका आन्ध्रलिपिमयी पूर्णा च वर्तते। ग्रन्थारम्भः ग्रन्थपरिसमाप्तिश्च सर्वोऽपि देवनागरीहस्तप्रतिवदेवास्ति ।
- अस्य ग्रन्थस्य सम्पादनक्रमः
अलकारराघवस्य हस्तप्रतिसमुपलब्ध्यनन्तरं संपादनकार्यमारब्धं मया। प्रथमतः मैसूरुपाच्यविद्या संशोधनालयस्य ताळपत्र स्वीकृत्य यथाहस्तप्रति प्रतिकृति लिखितवानहम् । अथोलङ्कारप्रकरणम् अत्र असमग्रामस्तीति दृष्ट्या मनसि चिन्ता समुद्भूता। तस्मिन्नेव समये Catalogus Catalogorum तथा New Catalogous Catalogorum इति ग्रन्थद्वयं मयाऽवलोकितम् । तत्र मदरास् अडयार, पुस्तकभाण्डागारे तञ्जावूरुसरस्वतीमहलपुस्तकभाण्डागारे च हस्तप्रतयः समुपलभ्यन्ते इति दृष्ट्वा मनसि हर्षः सञ्जातः । सद्य एव मदरास्तन्न वरुपुस्तकमाण्डागारयोः विवरणात्मकग्रन्थसून्यौ अवलोक्य हस्तमतिविषय संग्राहयामास । ततः मदरासअडयार्पुस्तकभाण्डागारात् संशोधनालयद्वारा मूलहस्तप्रतिमेवानाय्य प्रतिकृतिम् अकरवम् । ततः तञ्ज रुपरस्वतीपुस्तकमाण्डागारात् मूलहस्तप्रतेः रचितां प्रतिकृति (Transcription copy) संशोधनालयद्वारा आनाययामास । परं सा प्रतिकृतिः (No. B. 5330 DST 32 Total number of pages 863) लिपिव्याकरणादिदोषयुताऽऽसीत् । पुनश्च तस्मादेव पुस्तकभाण्डागारा। द्वयोः हस्तप्रत्योः मैक्रोफिल्मप्रतीः ( Microfilm copies ) आनाय्य संपादनकार्यमारब्धवान् । मदरासूहस्तप्रती अर्थालङ्कारप्रकरणं विना समग्रः भागः आसीत् । शब्दालङ्कारप्रकरणेऽपि केचन भागाः लुप्ताः आसन् । मैसूरुसंशोधनालयस्य हस्तप्रतौ शब्दालङ्कारप्रकरणम् अर्थालङ्कारप्रकरणं च आस्ताम् । तञ्जावूहस्तप्रत्योः ग्रन्थः समग्रतयाऽऽसीत् । एतासा 1 Descriptive Catalogue-Tanjore, vol-IX, p. 3975