________________
सरप्रकरणम्
173
'हर्षावेगजडतागर्वविषादौत्सुक्यनिक्षपस्मारसुप्तिविरोधामावहित्थोग्रतामतिव्या. ध्युन्मादमरणत्रासवितर्कभेदात् त्रयस्त्रिंशत्। 'यानि लोके कार्यकारणसहकारिशब्दवाच्मानि तान्येव नाट्य काव्ययोर्विभावानुभावसात्त्विकन्यभिचारिशब्द. वाच्यानि भवन्ति । व्यभिचारिणां सहकारितापकारस्तु वृद्धैरुक्तः ।
मज्जन्तश्च निमज्जन्तः कल्लोलास्ते यथार्णवे। तस्योत्कर्ष वितन्वन्ति यान्ति तदूपतामपि ॥ तथा स्थायिनी निर्मना पुन्मना ब्यभिचारिणः।। पुष्णन्ति स्थायिनं खांश्च तत्र यान्ति रसात्मतामिति ।
तत्र व्यभिचारिभावानामुदयेन भावोदयः। प्रशाम्यदवस्थयाभावशान्तिः। परस्परविरुद्ध रसाश्रययोः स्पर्द्धया सम्बन्धे भावसन्धिः। बहूनां भावानां 'उपमर्दकतया समावेशने भावशबलता ।
__ अथ शृङ्गारादिरसविशेषाणां लक्षणमुच्यते ।
तत्र
1 चपलताहर्षावेग-त ' कारणान्यथ कार्याणि सहकारीणि यानि च ।
रत्यादेः स्थायिनो लोके तानि चेनाट्यकाव्ययोः ॥ विभावाः अनुभावास्तन कथ्यन्ते व्यभिचारिणः । व्यक्तः स तैर्विभावायः स्थायिभावो रसः स्मृतः॥
(काव्यप्रकाशः-४ उ. २७-२८ का) • रसाश्रययोः भावयोः स्पर्धया-त • अन्योन्योपमर्दकतया-त