________________
164
अलङ्कारराघवे
निर्विकारस्य चित्तस्य 'भावस्स्यादादिविक्रिया। इति। एतदुक्तं भवति। 'रसस्य सन्निहितपूर्भवस्थाविशेषः स्थायिभाव' इति । 'भावस्य स्थायित्वं नाम-सजातीयासजातीयातिरस्कृतरूपतया यावदनुभवमस्थानम् । स चासम्भवः । सजातीयेन नायिकान्तरानुरागेण विजातीयेन बीभत्सादिना वा एकस्यां नायिकायाम् अनुरागस्य अतिरस्करणात् । तदुक्तम्
विरुद्धैरविरुद्धैश्च माविच्छिद्यते न यः। आत्मभावं नयत्यन्यान् स्थायीव लवणाकर || इति ।
स च रसो नवविधः शृङ्गारहास्यकरुणरौद्रवीरभयानकवीभत्साद्भुतशान्त भेदात् । ननुशान्त मष्टो रसा इति । कथं नवविधो रस इति चेन्न। विकल्पासहत्वात्। किं शान्तस्य निर्मरानन्दरूपत्वाभावात् न रसता !
1 रसार्णवसुधाकरः-प्रथमो विलासः-१९२ श्लोक ' भावस्य स्थायित्वं नाम सजाती पविजातीयानभिभूततया यावदनुभवमस्थानम् ।
(प्रतापरुदीये रसप्रकरणम) ' सजातीयविजातीयविर्ये त्वतिरस्कृताः । क्षीराब्धिवनयन्त्यन्यान् स्वात्मत्वं स्थायिनोहिते ॥
(रसार्णवसुधाकरः २ विलास:-१०४ श्लो) ' (i) अष्टधा स च शृङ्गारहास्यवीराद्भुता अपि । गैद्रः करुणबीभत्सौ भयानक इतीरितः ॥
(रसार्णवसुधाकराः २ विलास-१९६-९६७ श्लोका) (ii) शृङ्गारहारयकरुणरौद्रवीरभयानकाः । बीभाद्भुतसंज्ञौ चेत्यष्टौ नाट्य रसाः स्मृताः ।।
(काव्यप्रकाश:-४ उल्लास-२९ श्लो)