SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ अलकारराघवे अलङ्कार एव । श्रेष्ठादयो गुणाः 'सौन्दर्यादिगुणाः। रीतिरुत्कर्षावहस्वभावः । वृत्तिवर्तनम्। पदानुगुणविश्रान्तिः शय्या। रसास्वादप्रभेदः पाकः पाककल्प इति काव्यसामग्री, लौकिकसामग्रीवद् बोध्या। ननु शब्दार्थो काव्यस्य मूर्तिरित्युक्तम्। कोऽयं शब्दो नाम । नन्वर्थसम्बन्धी शब्द इति चेन्न । घटाद्यर्थसम्बन्ध्यर्थान्तरे 'अतिव्याप्तिः । नन्धर्थेन सह नित्यसम्बन्धः शब्द इति चेन्न । तार्किकमते समवायेन सम्बन्धिनि रूपादावतिन्याप्तेः। उभबोरेकतरस्य वा । भनित्यत्वेन तत्सम्बन्धस्याप्यनित्यत्वात् असम्भवपत्तेः । अत मतम् । 'अर्थेन 'सहजोत्पत्तिकसम्बन्धश्शब्दः। औत्पत्तिकः स तु शब्दस्यार्थेन सम्बन्ध' इति सूत्रकारवचनात् इति। मैवम्। गुण. गुणिनोस्सहोत्पत्तिमते गुणादावतिव्याप्तेः। तयोस्सहानुत्पत्तिवादेऽपि डित्यादि सांकेतिकशब्देषु अव्याप्तिः, कालान्तरे नामकरणात् तस्यार्थेन सह अनुत्पत्तेः । 'ननु तस्यार्थप्रतिपादकश्शन्द इति चेदुच्यते। किमिदं प्रातिपदिकत्वम् मर्थप्रतिपत्तिजनकत्व मात्रश्चेत् हन्त! नयनसंज्ञादावतिव्याप्तेः। नयत्येनार्थप्रतिपत्तिजनकत्वं चेत् चक्षुरादा वतिव्याप्तः। ननु वृत्तिमरवे सत्यर्थ 1 श्लोषादयो गुणाः-त ' स्वादप्रमेदः पाक:-म ' अतिव्याप्तेः-त + सहौत्पत्तिकस्सम्बन्धः-द ' औत्पत्तिकस्तु शब्दस्य अर्थेन सम्बन्धः-त ' 'तयोस्सहानुत्पत्तिवादेऽपि-इत्यारभ्य तस्यार्थेन सह अनुत्पत्तः, इति पर्यन्तो भागः 'म' प्रती नास्ति । 1 ननु तर्हि अर्थप्रतिपादकश्शब्दः-त ६. मात्र चेत् हस्तनयनसंज्ञादौ-त भतिव्याप्ति:--द
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy