SearchBrowseAboutContactDonate
Page Preview
Page 605
Loading...
Download File
Download File
Page Text
________________ २२० वक्रोक्तिजीवितम् [३.६२-६३ (र्थसामर्थ्यावगतो) त्प्रेक्षायाः ससन्देहं विनाऽनुपपत्तेः, परस्मिंश्च तथैव रूपकस्येति द्वयोरप्येतयोः तत्त्वं तुल्यम् । ससन्देहस्य पुनस्तद्विभूषणत्वेनान्तर्विधाने मणिमयपदकबन्धबन्धुरहारादिरमणीयत्वमित्युक्तमेव । संसृष्टेनानाविधच्छायमणिमालामनोहरता, संङ्करालंकारस्य विविधकान्तिरत्नविन्यासविचित्रबहुलातुलकान्तिकरूपत्वमिति सर्वमेव विभक्तम् ।। एवं यथोपपत्त्यलंकारान् लक्षयित्वा केषांचिदलक्षितत्वात् लक्षणाव्याप्तिदोषं परिहर्तुमुपक्रमते । भूषणान्तरभावेन शोभाशून्यतया तथा । अलंकारास्तु ये केचिन्नालंकरतया मनाक् ॥६२ ॥ भूषणेत्यादि । “ये” =पूर्वोक्तव्यतिरिक्ता: “केचिदलंकाराः” ते “नालंकारतया मनाक् ” न विभषणत्वेनाभ्युपगताः । केन हेतुना "भूषणान्तरभावेन" = अन्यद्भ षणं “भूषणान्तरं”, तेभ्यो व्यतिरिक्तम् ; “तद्भावेन" = तत्स्वभावत्वेन तदनन्यत्वेन पूर्वोक्तानामेवान्यतमत्वेनेत्यर्थः । “शोभाशन्यतया तथा” =शोभा कान्तिः तया शून्यं रहितं शोभाशन्यं तस्य भाव: शोभाशन्यता तया हेतुभूतया । न केवलं ताभ्यामेव, यावदलंकार्यतया विभष्यत्वेनापि तेषामलंकरणत्वमनुपपन्नम् । एवं च यथासंख्यमलंकारः पूर्वैराम्नात एव यः । कारणद्वितयेनापि नालंकारः स संमतः ॥६३॥ " यथासंख्यमलंकारः पूर्वैराम्नातः” तुल्य (क्रम) कैश्चित्स्वशब्देनाभिहितः स्वनाम्ना “स नालंकारः, कारणद्वितयेनापि” भूषणान्तरभावेन शोभाशून्यतया च । तथा च तस्योदाहरणम् पद्मन्दुभृङ्गमातङ्गपुस्कोकिलकलापिनः ।। वक्त्रकान्तीक्षणगतिस्वरकेशस्त्वया जिता ॥२१५ ॥
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy