________________
वक्रोक्तिजीवितम्
त्वय्याया विकल्पानिति दधत इवाभाति कम्पः पयोधेः ।। १८३ ॥
अत्र वर्ण्यमानस्य नारायणत्वसमारोपं विना तदारम्भसंभावना न संभवतीति तस्य तत्त्वाध्यारोपणात् प्रतीयमानतया रूपकमेव पूर्वसूरिभिः समाम्नातम् वाच्यव्यतिरेकः तत्कथमस्योपपद्यते । सत्यमुक्तम्, किंतु युक्तिरत्राभिधीयते तस्माद्दिविधं प्रतीयमानं वस्तु, प्रतिपादन गुणीभूतस्वार्थं वाचकव्यापारगोचरः, तथाविधार्थसामर्थ्यविषयो वा । तत्र वाचकमुपमानमित्यालोच्य विवक्षितार्थोपपत्तिनिमित्तं वाच्यसामर्थ्यमेव समाश्रित्य पूर्वसूरिभिरेतदाम्नातम् । वाचकव्यापार: पुनरन्यथैव व्यवस्थितः । तथा च प्राप्त (श्री) प्रभृतीनि पदानि आक्षिप्त प्रतियोगितयोपनिबद्धानि, प्रस्तुतस्य प्राक्तन परिस्पन्दविशिष्टतरदेवतात्वप्रतिपादकपराणि प्रकटमेव रूपकव्यतिरेकं गमयन्ति । तदिदमुक्तम्
यत्रार्थः शब्दो वा तमर्थमुपसर्जनीकृतस्वार्थी । व्यक्ङ्क्तः काव्यविशेषः स ध्वनिरिति सूरिभिः कथितः ।। १८४ ।। तस्मान्न किंचिदनुपपन्नम् ।
२०४
,
श्लेषव्यतिरेको यथा-
श्लाघ्याशेषतनुं सुदर्शनकरः सर्वाङ्गलीलाजितत्र्यैलोक्यां चरणारविन्दललितेनाक्रान्तलोको हरिः । बिभ्राणा मुखमिन्दुरूपमखिलं चन्द्रात्मचक्षुर्दधत् स्थाने यां स्वतनोरपश्यदविकां सा रुक्मिणी
—
[३.४९
अयैस्व प्रकारान्तरमाहलोकप्रसिद्धसामान्यपरिस्पन्दाद्विशेषतः ।
व्यतिरेको यदेकस्य परस्तदविवक्षया ॥ ४९॥
वोऽवतात् ।। १८५ ॥