SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ २०१ ३.४५-४७] तृतीयोन्मेषः पदार्थान्तरमेतस्य कवयः प्रतिपादकम् । वाच्यसामर्थ्यमपरमिवादि प्रतिजानते ॥४५॥ पदार्थान्तरमित्यादि । “पदार्थान्तरं" -- श्लिष्टपदव्यतिरिक्तं “अपरं” तत्समर्पणसामर्थ्यसमेतमेतस्य श्लेषालंकारस्य प्रतिपादक समर्पकं कवयस्तद्विदः “प्रतिजानते” प्रत्यवबुद्धयन्ति। वाचकविशेष“मपरं इवादि” इवप्रभति वा पदार्थान्तरादिव्यतिरिक्तं वाच्यसामर्थ्यमेव वा केवलं वाक्यं सकृत्प्रतिपादितम् । तस्य स्वरूपसामर्थ्य विवक्षितार्थ समर्पणशक्तियुक्तार्थं प्रतिजानते । प्रतिपादकमिति संबन्धः । त्रिष्वप्येतेषु प्रकारेषु द्वयोरर्थयोः प्राधान्येन च वर्ण्यमानत्वे तथाविधशब्दवाच्यत्वलक्षणसाम्यसमन्वयस्वरूपं शोभानिमित्तं वाक्यसामर्थ्यलभ्यं प्रतीयमानमलंकरणं, वाचकसद्भावे पुनः वाच्यमेव । प्रस्तुताप्रस्तुतयोरर्थयोः प्रधानगुणभावे सति. तथैव तथाविधशब्दवाच्यत्वसाम्यसमन्वय एव । मुख्यतया वर्ण्यमानस्याप्येकतरस्योपमानत्वे समुच्चितोपमाद्या(लोचनयान्यस्योपमेयत्वसमन्वयोऽनुसन्धेयः । अर्थयोरेकमुल्लेखि पदं शब्दतदर्थयोः । एकावभासयोः साम्यं तन्त्रत्वादत्र जृम्भते ॥४६॥ तुल्यशब्दस्मृतेरर्थः तस्मादन्यः प्रतीयते । शब्दस्योद्भतनष्टत्वात् स्मृतिः सर्वत्र वाचिका ॥४७॥ तत्र प्रथमस्योदाहरणं यथा स्वाभिप्रायसमर्पणप्रवणया माधुर्यमुद्राङ्कया विच्छित्त्या हृदयेऽभिजातमनसामन्तः किमप्युल्लिखत् । आरूढं रसवासनापरिणतेः काष्ठां कवीनां परं कान्तानां च विलोकितं विजयते वैदग्ध्यवक्रं वचः ॥१७७॥
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy