________________
१८६
वक्रोक्तिजीवितम्
[३.३८-४०
मानमुपलभ्यते ।
तदेवं प्रतिवस्तूपमायाः प्रतीयमानोपमायामन्तर्भावोपपत्ती सत्यामिदानीमुपमेयोपमादेरुपमायामन्तर्भावो विचार्यते ।
उपमेयोपमा येयमुपमानोपमेययोः ।
सामान्या प्रस्तुतत्वात्तु लक्षणानन्यथास्थितेः ॥३८॥ उपमेयोपमेत्यादि - " उपमेयोपमा नाम" = काचिदलंकृतिः "सामान्या"-न व्यतिरिक्ता । कुत:--- प्रस्तुतत्वादुपमायाः । कस्मात् कारणात ? "लक्षणानन्यथास्थितेः'-- स्वरूपस्य असाधारणमभिधानं लक्षणं, तस्य अनन्यथासिद्धरपि =अतिरिक्तभावानवस्थानात् । तथा चोपमेयमुपमानं यस्यामिति विग्रहे (स्व)यमुपमानमुपमेयं संपद्यते, यदुपमानं तदुपमेयमुदितम् ।
"प्रसुप्तमथवा निद्रा च शोकात्मतामापन्नस्य हृदयहारीति रतेराश्वासनाभूमयः" ।। १४०॥ एतदादेस्तुल्ययोगिताप्रकारत्वमुपपद्यते न वेत्याहतत्तुल्ययोगिता नाम नासौ पृथगलंकृतिः । एतस्यां बहवो द्वौ वा पदार्थास्तुल्ययोगिनः ॥ ३९ ॥ प्रकारत्वं प्रपद्यन्ते प्राधान्यस्य निवर्तनात् ।
(वस्तु मुख्यतया वऱ्या, किं स्यात् कस्य विभूषणम्)॥४०॥ येयं तुल्ययोगिता नाम नासावलंकृतिः यस्मात् “एतस्या द्वौ बहवो वा पदार्थाः तुल्ययोगिनः प्रकारत्वमुपपद्यन्ते," वर्णनीयतां नीयन्ते । अत्र वर्ण्यते मुख्यतया वर्णनीयं वस्तु (इति) किं कस्य विभूषणं स्यात् अलंकरणं भवेत्। प्रत्येकं प्राधान्ये नियमा निश्चितेः न किंचित् कस्यचिदित्यर्थः । यदि वा सर्वस्य कस्यचिद्भषणत्वं