SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ १४२ वक्रोक्तिजीवितम् ३.११] तात्पर्ये स एव प्राधान्येन वाक्यार्थः, तदङ्गतया विनिबध्यमान: करुण: । प्रवासविप्रलम्भशृङ्गारपरत्वमत्र न परमार्थः । परस्परान्वितपदार्थसार्थसमर्प्यमाणवृत्तिर्गुणभावेनावभासनादलंकरणमित्युच्यते । तस्य च निर्विषयत्वाभावाद् रसालम्बनविभावादिस्वकारणसामग्रीविरहविहिता लक्षणानुपपत्तिर्न संभवति । रसद्वयसमावेशदुष्टत्वमपि दूरमपास्तमेव । द्वयोरपि वास्तवस्वरूपस्य विद्यमानत्वात्तदनुभवप्रतीतो सत्यां नात्मविरोध: स्पर्धित्वाभावात् । तेन तदपि तद्विदाह्लादविधानसामर्थ्यसुन्दरम् करुणरसस्य निश्चायक प्रमाणाभावात् । प्रवासविप्रलम्भस्य स्वकारणभूतवाक्योपारूढालम्बनविभावादिसमjमाणत्वं स्वप्नान्तसमये, प्रबोधावसरे च तथाविधत्वं युक्त्या संभवतस्तस्य करुणस्येत्यभयमुपपन्नमिति । प्रथमतरमेव कथमसौ समद्भवतीति चैतदपि न समञ्जसप्रायम् । यस्माच्चाविषयमहापुरुषप्रतापाक्रान्तिचकितचेतसामितस्ततः स्ववैरिणां तत्प्रेयसीनां च पलायनैरपि पृथगवस्थानं न युक्तिप्रयुक्ततामतिवर्तते । करुणरसस्य सत्यपि निश्चय, तस्यैव तथाविधपरिपोषदशाधाराधिरूढेरेकाग्रतास्तिमितमानसः तथाभ्यस्तव्यसनाधिवासितचेतसा सुचिरात्समासादितस्वप्नसमागमः पूर्वानुभूतवृत्तान्तसमुचितसमारब्धकान्तसंलापः कथमपि संप्रबुद्धः प्रबोधसमनन्तरसमुल्लसितपूर्वापरानुसंधानविहितप्रस्तुतवस्तुविसंवादविदारितान्त:करणो भवद्वैरिविलासिनीसार्थो रोदितीति करुणस्यैव परिपोषपदवीसमधिरोहः तथाविधव्यभिचायौं चित्य चारुत्वं तत्स्वरूपानुप्रवेशो वेति कुतः प्रवासविप्रलम्भस्य पृथग्व्यापारे रसगन्धोऽपि ? यदि वा प्रेयसः प्राधान्ये तदङ्गत्वात् करुणरसस्यालंकरणत्वमित्यभिधीयते तदपि न निरवद्यम् । यस्माद् द्वयोरप्येतयोरुदाहरणयोमुख्यभतो वाक्यार्थः करुणात्मनैव विवर्तमानवृत्तिरुपनिबद्धः। पर्या
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy