________________
३.६-७] तृतीयोन्मेषः
१२९ मारं तद्विदाह्लादकमित्यर्थः । एतदेव द्वैविध्यं विभज्य विचारयति
तत्र पूर्व प्रकाराभ्यां द्वाभ्यामेव विभिद्यते । सुरादिसिंहप्रभृतिप्राधान्येतरयोगतः ॥६॥ तत्र द्वयोः स्वरूपयोर्मध्यात् पूर्वं यत्प्रथमं चेतनपदार्थसंबन्धि तद् द्वाभ्यामेव राश्यन्तराभावात् प्रकाराभ्यां विभिद्यते भेदमासादयति, द्विविधमेव संपद्यते । कस्मात्-सुरादिसिंहप्रभृतिप्राधान्येतरयोगतः । सुरादयः त्रिदशप्रभृतयो ये चेतनाः सुरासुरसिद्धविद्याधरगन्धर्वनर प्रभृतयः, ये चान्ये सिंहप्रभृतयः केसरिप्रमुखास्तेषां यत्प्राधान्यं मुख्यत्वमितरदप्राधान्यं च ताभ्यां यथासंख्येन प्रत्येक यो योगः संबन्धस्तस्मात् कारणात् ।।
तदेवं सुरादीनां मुख्यचेतनानां स्वरूपमेकं कवीनां वर्णनास्पदम् । सिंहादीनाममुख्यचेतनानां पशुमृगपक्षिसरीसृपाणां स्वरूपं द्वितीयमित्येतदेव विशेषेणोन्मीलयति- .
मुख्यमक्लिष्टरत्यादिपरिपोषमनोहरम् । स्वजात्युचितहेवाकसमुल्लेखोज्ज्वलं परम् ॥७॥
मुख्यं यत्प्रधानं चेतनसुरासुरादिसंबन्धि स्वरूपं तदेवंविधं सत् कवीनां वर्णनास्पदं भवति स्वव्यापारगोचरतां प्रतिपद्यते । कीदृशम्-अक्लिष्टरत्यादिपरिपोषमनोहरम् । अक्लिष्टः कदर्थनाविरहितः प्रत्यग्रतामनोहरो यो रत्यादिः स्थायिभावस्तस्य परिपोषः शृङ्गारप्रभृतिरसत्वापादनम्, 'स्थाय्येव तु रसो भवेदिति न्यायात् । तेन मनोहरं हृदयहारि। अत्रोदाहरणानि विप्रलम्भशृङ्गारे चतुर्थेऽङ्के विक्रमोर्वश्यामुन्मत्तस्य पुरूरवसः प्रलपितानि । यथा