SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ १२४ - वक्रोक्तिजीवितम् . [३.३-४ तथा च, दुःसहसमरसमयसमुचितशौर्यातिशयश्लाघया प्रस्तुतनरनाथविषये वल्लभलाभरभसोल्लसितसुरसुन्दरीसमूहसमर्प्यमाणमन्दारादिकुसुमदामसहस्रसंभावनानुमाननन्दनोद्यानपादपप्रसूनसमृद्धिप्रध्वंसभावसिद्धिः समत्प्रेक्षिता। यस्मादुत्प्रेक्षाविषयं वस्तु कवयस्तदिवेति तदेवेति वा द्विविधमुपनिबध्नन्तीत्येत (त्त)ल्लक्षणावसर एव विचारयिष्यामः । तदेवमियमुत्प्रेक्षा पूर्वार्धविहिताप्रस्तुतप्रशंसोपनिबन्धबन्धुरा प्रकृतपार्थिवप्रतापातिशयपरिपोषप्रवणतया सुतरां समुद्भासमाना तद्विदावर्जनं जनयतीति सातिशयत्वम् । उत्प्रेक्षातिशयान्विता ॥१४॥ इत्येतस्याः, स्वलक्षणानुप्रवेश इत्यतिशयोक्तेश्च कोऽलंकारोऽनया विना ॥ १५ ।। इति सकलालंकरणानुग्राहकत्वम् । तस्मात् पृथगतिशयोक्तिरेवेयं मुख्यतयेत्युच्यमानेऽपि न किंचिदतिरिच्यते । कविप्रतिभोत्प्रेक्षितत्वेन चात्यन्तमसंभाव्यमप्युपनिबध्यमानमनयैव युक्त्या समजसतां गाहते, न पुनः स्वातन्त्र्येण । यद्वा कारणतो लोकातिक्रान्तगोचरत्वेन वचसः सैवेयमित्यस्तु, तथापि प्रस्तुतातिशयविधानव्यतिरेकेण न किंचिदपूर्वमत्रास्ति । .. तदेवमभिधानस्य पूर्वमभिधेयस्य चेह वक्रतामभिधायेदानी वाक्यस्य वक्रत्वमभिधातुमुपक्रमते मार्गस्थवक्रशब्दार्थगुणालंकारसंपदः । अन्यद्वाक्यस्य वक्रत्वं तथाभिहितिजीवितम् ॥३॥ मनोज्ञफलकोल्लेखवर्णच्छायाश्रियः पृथक् । चित्रस्येव मनोहारि कर्तुः किमपि कौशलम् ॥४॥ अन्यद्वाक्यस्य वक्रत्वम्-वाक्यस्य परस्परान्वितवृत्तेः पदसमु
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy