SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ ३.१] तृतीयोन्मेषः भावव्यभिचायौं चित्यव्यतिरेकेण प्रकारान्तरेण प्रतिपत्तिः प्रस्तुतशोभापरिहारकारितामावहति । तथा च प्रथमतरतरुणीतारुण्यावतारप्रभृतयः पदार्थाः सुकुमारवसन्तादिसमयसमुन्मेषपरिपोषपरिसमाप्तिप्रभृतयश्च स्वप्रतिपादकवाक्यवक्रताव्यतिरेकेण भूयसा न कस्यचिदलंकरणान्तरस्य कविभिरलंकरणीयतामुपनीयमानाः परिदृश्यन्ते । यथा स्मितं किंचिन्मुग्धं तरलमधुरो दृष्टिविभवः परिस्पन्दो वाचामभिनवविलासोक्तिस रसः । गतानामारम्भः किसलयितलीलापरिमल: स्पृशन्त्यास्तारुण्यं किमिव हि न रम्यं मृगदृशः ॥२।। यथा वा ___ अव्युत्पन्नमनोभवा मधुरिमस्पर्शोल्लसन्मानसा भिन्नान्तःकरणं दृशौ मकुलयन्त्याघ्रातभूतोद्भमाः । रागेच्छां न समापयन्ति मनसः खेदं विनवालसा वृत्तान्तं न विदन्ति यान्ति च वशं कन्या मनोजन्मनः ।।३।। यथा च दोर्मूलावधि इति ।। ४ ।। यथा वा गर्भग्रन्थिषु वीरुधां सुमनसो मध्येऽङ्करं पल्लवा वाञ्छामात्रपरिग्रहः पिकवधूकण्ठोदरे पञ्चमः । किं च त्रीणि जगन्ति जिष्ण दिवसेंद्विवैमनोजन्मनो देवस्यापि चिरोज्झितं यदि भवेदभ्यासवश्यं धनुः ।। ५ ।। यथा वा हंसानां निनदेषु इति ।। ६ ।।
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy