________________
११२
वक्रोक्ति जीवितम
तस्यापरेष्वपि मृगेषु शरान्मुमुक्षोः कर्णान्तमेत्य बिभिदे निबिडो ऽपि मष्टिः । श्रासातिमात्रचटलैः स्मरयत्म नेत्रः प्रौढप्रियानयनविभ्रमचेष्टितानि ॥ १०६ ॥
[ २.३२
अत्र राज्ञः सुललितविलासवती लोचनविलासेषु स्मरणगोचरमवतरत्सु तत्परायत्तचित्तवृत्तेराङ्गिकप्रयत्न परिस्पन्दविनिवर्तमानो मुष्टिभि भिद्यते स्म । स्वयमेवेति कर्मकर्तनिबन्धनमात्मनेपदमतीव चमत्कारकारिणी कामपि वाक्यवत्रतामावहति ।
एवमुपग्रहवत्रतां विचार्य तदनुसंभविनीं प्रत्ययान्तरवकतां विचारयति -
विहितः प्रत्ययादन्यः प्रत्ययः कमनीयताम् । यत्र कामपि पुष्णाति सान्या प्रत्ययवत्रता ।। ३२॥
सान्या प्रत्ययवकता सा समाम्नातपादन्यापरा काचित् प्रत्ययवकत्वविच्छित्तिः । अस्तीति संबन्ध: । यत्र यस्यां प्रत्ययः कामप्यपूर्वी कमनीयतां रम्यतां पुष्णाति पुष्यति । कीदृश:-- प्रत्ययात् तिङादेर्विहितः पदत्वेन विनिर्मितोऽन्यः कश्चिदिति ।
यथा
लीनं वस्तुनि येन सूक्ष्मसुभगं तत्त्वं गिरा कृष्यते निर्मातुं प्रभवेन्मनोहरमिदं वाचैव यो वा बहिः । वन्दे द्वापि तावहं कविवरौ वन्देतरां तं पुनर्यो विज्ञातपरिश्रमोऽयमनयोर्भारावतारक्षमः ।। १०७ ।। 'वन्देतराम्' इत्यत्र कापि प्रत्ययवकता कवेश्चेतसि परिस्फुरति । ततएव ' पुन: ' -शब्द: पूर्वस्माद्विशेषाभिधायित्वेन प्रयुक्तः ।
एवं नामाख्यातस्वरूपयोः पदयोः प्रत्येकं प्रकृत्याद्यवयवविभाग