SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ ७७ २.९] द्वितीयोन्मेषः लोकोत्तरतिरस्कारश्लाध्योत्कर्षाभिधित्सया । वाच्यस्य सोच्यते कापि रूढिवैचित्र्यवक्रता ॥९॥ यत्र रूढेरसंभाव्यधर्माध्यारोपगर्भता प्रतीयते । शब्दस्य नियतवृत्तिता नाम धर्मो रूढिरुच्यते, रोहणं रूढिरिति कृत्वा। सा च द्विप्रकारा संभवति–नियतसामान्यवृत्तिता नियतविशेषवृत्तिता च । तेन रूढिशब्देनात्र रूढिप्रधान: शब्दोऽभिधीयते, धर्मधर्मिणोरभेदोपचारदर्शनात् । यत्र यस्मिन् विषये रूढिशब्दस्य असंभाव्य: संभावयितुमशक्यो यो धर्म : कश्चित्परिस्पन्दस्तस्याध्यारोप: समर्पणं गर्भोऽभिप्रायो यस्य स तथोक्तस्तस्य भावस्तत्ता सा प्रतीयते प्रतिपाद्यते । यत्रेति संबन्धः । सद्धर्मातिशयारोपगर्भत्वं वा। संश्चासौ धर्मश्च सद्धर्म: विद्यमान: पदार्थस्य परिस्पन्दस्तस्मिन् यस्य कस्यचिदपूर्वस्यातिशयस्याद्भूतरूपस्य महिम्न आरोप: समर्पणं गर्भोऽभिप्रायो यस्य स तथोक्तस्य भावस्तत्त्वम् । तच्च वा यस्मिन प्रतीयते । केन हेतुना-लोकोत्तरतिरस्कारश्लाघ्योत्कर्षाभिधित्सया। लोकोत्तर: सर्वातिशायी यस्तिरस्कारः खलीकरणं श्लाघ्यश्च स्पृहणीयो य उत्कर्ष: सातिशयत्वं तयोरभिधित्सा अभिधातुमिच्छा वक्तुकामता तया। कस्य वाच्यस्य। रूढिशब्दस्य वाच्यो योऽभिधेयोऽर्थस्तस्य । सोच्यते कथ्यते काप्यलौकिकी रूढिवैचित्र्यवक्रता । रूढिशब्दस्यैवं विधेन वैचित्र्येण विचित्रभावन वक्रता वक्रभाव: । तदिदमत्र तात्पर्यम्-यत्सामान्यविचित्रसंस्पर्शिनां शब्दानामनुमानवन्नियतविशेषालिङ्गनं यद्यपि स्वभावादेव न किंचिदपि संभवति, तथाप्यनया युक्त्या कविविवक्षितनियतविशेषनिष्ठतां नीयमाना: कामपि चमत्कारकारितां प्रतिपद्यन्ते । यथा ताला जाअंति गुणा जाला ते सहिअएहि घेप्पंति । रइकिरणाणुग्गहिआई होंति कमलाइं कमलाइं ।।२६।।
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy