SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ वक्रोक्तिजीवितम् चेष्टायाश्च । सूत्रित सिक्त ताण्डव पण्डित कन्दलितानामुपचारवक्रत्वं लक्ष्यते, स्निह्यदित्येतस्य कालविशेषावेदक: प्रत्ययवक्रभाव:, अन्यंत्र काचिदवर्णनीयेति संवृतिवत्रताविच्छित्तिः, अङ्गवंतमिति कारकत्वम् । विचित्र मार्गविषयो लावण्यगुणातिरेकः । तदेव - मेतस्मिन् प्रतिभासंरम्भजनितमकलसामग्रीसमुन्मीलितं सरसहृदयाह्लादकार किमपि सौभाग्यं समुद्भासते । अनन्तरोक्तस्य गुणद्वयस्य विषयं प्रदर्शयति एतत्त्रिष्वपि मार्गेषु गुणद्वितयमुज्ज्वलम् । पदवाक्यप्रबन्धानां व्यापकत्वेन वर्तते ।। ५७ ।। ६६ - [१.५७ एतद् गुणद्वय मौचित्यसौभाग्याभिधानम् उज्ज्वलमतीव भ्राजिष्णु प्रदवाक्यप्रबन्धानां त्रयाणामपि व्यापकत्वेन वर्तते सकलावयवव्यास्त्यावतिष्ठते । ववेत्याह- त्रिष्वपि मार्गेषु सुकुमारविचित्रमध्यमाख्येषु । तत्र पदस्य तावदौचित्यं बहुविधभेदभिन्नो वक्रभावः । स्वभावस्याञ्जसेन प्रकारेण परिपोषणमेव वक्रतायाः परं रहस्यम् । उचिताभिधानजीवितत्वाद् वाक्यस्याप्येकदेशेऽप्यौचित्यविरहात्त द्विदाह्लादकारित्वहानि: । यथा रघुवंशे पुरं निषादाधिपतेस्तदेत द्यस्मिन्मया मौलिमणिं विहाय । जटासु बद्धास्वरुदत्सुमन्त्रः कैकेय कामाः फलितास्तवेति ॥ १२२ ॥ अत्र रघुपतेरनर्घ महापुरुषसंपदुपेतत्वेन वर्ण्यमानस्य 'कैकेयि कामा: फलितास्तव' इत्येवं विधतुच्छतरपदार्थ संस्मरणं तदभिधानं चात्यन्तमनौचित्यमावहति । प्रबन्धस्यापि क्वचित्प्रकरणकदेशेऽप्यौ
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy