________________
१.४४]
प्रथमोन्मेपः अत्र न खलु तत् स्मितमात्रमेवेति प्रथमाऽभिलाषसुभगं सरसाभिप्रायत्वमुक्तम् । अपरार्धे तु-हसितांगुकतिरोहितमन्यदेव किमपि परिस्फुरदालोक्यत इति कमनीयवैचित्र्यविच्छित्तिः । ___ इदानी विचित्रमेवोपसंहरति-विचित्रो यत्रेत्यादि । एवं विधो विचित्रो मार्गो यत्र यस्मिन् वक्रोक्तिवैचित्र्यम् अलंकारविचित्रभावो जीवितायते जीवितवदाचरति । वैचित्र्यादेव विचित्रे ‘विचित्र'शब्द: प्रवर्तते । तस्मात्तदेव तस्य जीवितम् । किं तद्वैचित्र्य नामेत्याह-परिस्फुरति यस्यान्त: मा कायतियाभिधा। यस्यान्त स्वरूपानप्रवेशेन सा काप्यलौकिकातिशयोक्तिः परिस्फुरति भ्राजते। यथा
यत्सेनारजसामुदञ्चति चये द्वाभ्यां दीयोऽन्तरान् पाणिभ्यां युगपद्विलोचनपुटानप्टाक्षमो रक्षितुम् । एकैकं दलमन्नमय्य गमयन् वासाम्बज काशतां
धाता संवरणाकुलश्चिरमभूत् स्वाध्यायवन्ध्याननः ।।१०२।। एवं वैचित्र्यं संभावनानुमानप्रवृत्ताया: प्रतीयमानत्वमु प्रेक्षायाः । तच्च धाराधिरोहणरमणीयतयातिशयोक्तिपरिस्पन्दस्यन्दि संदृश्यते । तदेवं वैचित्र्यं व्याख्याय तस्यैव गुणान् व्याचप्टे
वैदग्ध्यस्यन्दि माधुर्यं पदानामत्र बध्यते । याति यत्त्यक्तशैथिल्यं बन्धबन्धुरताङ्गताम् ॥४४॥ अत्रास्मिन् माधुर्य वैदग्ध्यस्यन्दि वैचित्र्यसमर्पक पदानां बध्यते वाक्यैकदेशानां निवेश्यते। यत्त्यक्तशैथिल्यमज्झितकोमलभाव भवद्वन्धबन्धुरताङ्गतां याति संनिवेशसौन्दर्योपकरणतां गच्छति । यथा
'कि तारुण्यतरो:' इत्यत्र पूर्वार्धे ॥१०३।।