________________
१.३०-३१]
प्रथमोन्मेषः वैचित्र्यमपि सौकुमार्याविसंवादि विधेयमित्युक्तम् । पञ्चमो विषयविषयिसौकुमार्यप्रतिपादनपरः ।
एवं सुकुमाराभिधानस्य मार्गस्य लक्षणं विधाय तस्यैव गुणान् लक्षयति
असमस्त मनोहारिपदविन्यासजीवितम् । माधुर्यं सुकुमारस्य मार्गस्य प्रथमो गुणः ॥३०॥ असमस्तानि समासवर्जितानि मनोहारीणि हृदयाह्लादकानि श्रुतिरम्यत्वेनार्थरमणीयत्वेन च यानि पदानि सुप्तिङन्तानि तेषां विन्यास: संनिवेशवैचित्र्यं जीवितं सर्वस्वं यस्य तत्तथोक्तं माधुर्य नाम सुकुमारलक्षणस्य मार्गस्य प्रथमः प्रधानभूतो गुणः। असमस्तशब्दोऽत्र प्राचुर्यार्थः, न समासाभावनियमार्थः । उदाहरणं यथा
क्रीडारसेन रहसि स्मितपूर्वमिन्दोलेखां विकृष्य विनिबध्य च मनि गौर्या । किं शोभिताहमनयोत शशाङ्कमौले:
पृष्टस्य पातु परिचुम्बनमुत्तर वः ॥ ८१ ।। अत्र पदानामसमस्तत्वं शब्दार्थरमणीयता विन्यासवैचित्र्यं च त्रितयमपि चकास्ति । तदेवं माधुर्यमभिधाय प्रसादमभिधत्ते
अक्लेशव्यञ्जिताकृतं झगित्यर्थसमर्पणम् । रसवक्रोक्तिविषयं यत्प्रसादः स कथ्यते ॥३१॥ झगिति प्रथमतरमेवार्थसमर्पणं वस्तुप्रतिपादनम् । कीदृशम् - अक्लेशव्यञ्जिताकृतम् अकदर्थनाप्रकटिताभिप्रायम्। किंविषयम्रसवक्रोक्तिविषयम् । रसा: शृङ्गारादयः, वक्रोक्तिः सकलालंकारसामान्यं विषयो यस्य तत्तथोक्तम् । स एव प्रसादाख्यो गुणः