SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ १.२९] प्रथमोन्मेषः ४३ तथोक्तः । तदयमत्राभिप्राय: –पदार्थपरमार्थमहिमैव कविशक्तिसमुन्मीलितः, तथाविधस्तत्र विजृम्भते । येन विविधमपि व्युत्पत्तिविलसितं काव्यान्तरगतं तिरस्कारास्पदं संपद्यते । अत्रोदाहरणं रघुवंशे मृगयावर्णनपरं प्रकरणम्, यथा तस्य स्तनप्रणयिभिर्मुहुरेणशाव हिन्यमानहरिणीगमनं पुरस्तात् । आविर्बभूव कुशगर्भमुखं मृगाणां यूथं तदग्रसरगर्वितकृष्णसारम् ॥७६ ।। इत्यादि । यथा च कुमारसम्भवे द्वन्द्वानि भावं क्रियया विवछः ॥ ७७ ।। इति । अत: परं प्राणिधर्मवर्णनम् - शृङ्गेण च स्पर्शनिमीलिताक्षी मृगीमकण्डयत कृष्णसारः ।। ७८ ।। अन्यच्च कीदृश:-रसादिपरमार्थज्ञमनःसंवादसुन्दरः। रसा: शृङ्गारादयः। आदिग्रहणेन रत्यादयोऽपि गृह्यन्ते । तेषां परमार्थ: पर रहस्यं तज्ज़ानन्तीति तज्ज्ञास्तद्विदस्तेषां मनःसंवादो हृदयसंवेदनं स्वानुभवगोचरतया प्रतिभासः, तेन सुन्दरः सुकुमार सहृदयहृदयाह्लादकारी वाक्यस्योपनिबन्ध इत्यर्थः । अत्रोदाहरणानि रघौ रावणं निहत्य पुष्पकेणागच्छतो रामस्य सीतायास्तद्विरहविधुरहृदयेन मयास्मिन्नस्मिन् समुद्देशे किमप्येवंविधं वैगसमनुभूतमिति वर्णयत: सर्वाण्येव वाक्यानि । तथा पूर्वानुभूतं स्मरता च रात्री कम्पोत्तरं भीरु तवोपगढम् । गुहाविसारीण्यतिवाहिनानि मया कथंचिद् घनगर्जितानि ।। ७१ ।।
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy