________________
प्रथमोन्मेषः
१.११-१२] तस्य भङ्गी विच्छित्तिः, तया भणितिः विचित्रवाभिधा वक्रोक्तिरित्युच्यते । तदिदमत्र तात्पर्यम्-यत् शब्दार्थों पृथगवस्थितौ न केनापि व्यतिरिक्तेनालंकरणेन योज्येते. किन्तु वक्रतावैचित्र्ययोगितयाभिधानमात्र मेवानयोरलंकारः, तस्यैव शोभातिशयकारित्वात् । एतच्च वक्रताव्याख्यानावसर एवोदाहरिष्यते ।।
ननु च किमिदं प्रसिद्धार्थविरुद्ध प्रतिज्ञायते यद्वक्रोक्तिरेवालंकारो नान्यः कश्चिदिति, यतश्चिरन्तनैरपरं स्वभावोक्तिलक्षणमलंकरणमाम्नातं तच्चातीवरमणीयमित्यसहमानस्तदेव निराकर्तुमाह
अलंकारकृतां येषां स्वभावोक्तिरलंकृतिः ।
अलंकार्यतया तेषां किमन्यदवतिष्ठते ॥११॥ येषामलंकारकृतामलंकारकाराणां स्वभावोक्तिरलंकृतिः, या स्वभावस्य पदार्थधर्मलक्षणस्य परिस्पन्दस्य उक्तिरभिधा सैवालंकृतिरलंकरणमिति प्रतिभाति, ते सुकुमारमानसत्वाद् विवेकक्लेशद्वेषिणः । यस्मात् स्वभावोक्तिरिति कोऽर्थः? स्वभाव एवोच्यमानः स एव यद्यलंकारस्तत्किमन्यत्तद्व्यतिरिक्तं काव्यशरीरकल्पं वस्तु विद्यते यत्तेषामलंकार्यतया विभष्यत्वेनावतिष्ठते पृथगवस्थितिमासादयति, न किंचिदित्यर्थः ।
ननु च पूर्वमवस्थापितम् – यद्वाक्यस्यैवाविभागस्य सालंकारस्य काव्यत्वमिति (१६) तत्किमर्थमेतदभिधीयते? सत्यम्, किन्तु तत्रासत्यभतोऽप्यपोद्धारबुद्धिविहितो विभागः कर्तुं शक्यते वर्णपदन्यायेन वाक्यपदन्यायेन चेत्युक्तमेव । एतदेव प्रकारान्तरेण विकल्पयितुमाह
स्वभावव्यतिरेकेण वक्तुमेव न युज्यते । वस्तु तद्रहितं यस्मानिरुपाख. लज्यते ॥१२॥
ना