________________
वक्रोक्तिजीवितम्
[१.२
लास्यमन्दिरनर्तकीम् । कवीन्द्रा: कविप्रवरास्तेषां वक्त्रंन्दुर्मुखचन्द्र: न एव लास्यमन्दिरं नाट्यवेश्म तत्र नर्तकी लासिकाम् । किविशिष्टाम् -- सूक्तिपरिस्पन्दसुन्दराभिनयोज्ज्वलाम् । सूक्तिपरिस्पन्दा: सुभाषितविलसितानि तान्येव मुन्दरा अभिनयाः सुकुमाराः सात्त्विकादयस्तैरुज्ज्वलां भ्राजमानाम् । या किल मत्कविवक्त्रे लास्यसद्मनीव नर्तकी स्वविलामा भिनयविशिष्टा नृत्यन्ती विराजते तां वन्दे नामीति वाक्यार्थः । तदिदमत्र तात्पर्यम् -- यत्किल प्रस्तुतं वस्तु किमपि काव्यालंकारकरणं तदधिदैवतभूतामेवंविधरामणीयकहृदयहारिणी वापां सरस्वती स्तौमीति ।
एवं नमस्कृत्येदानी वक्तव्यवस्तुविषयभतान्यभिधानाभिधेयप्रयोजना-यास्त्रयति ।
वाचो विषयनैयत्यमुत्पादयितुमुच्यते ।
आदिवाक्येऽभिधानादि निर्मितेर्मानसूत्रवत् ।। ६ ।। इत्यन्तरश्लोकः । (?)
लोकोत्तरचमत्कारकारिवैचित्र्यसिद्धये ।
काव्यस्यायमलंकारः कोऽप्यपूर्वो विधीयते ॥२॥ अलंकारो विधीयते अलंकरणं क्रियते । कस्य – काव्यस्य । कवेः कर्म काव्यं तस्य । ननु च सन्ति चिरन्तनास्तदलंकारास्तत्किमर्थमित्याह - .. अपूर्वः, तद्वयतिरिक्तार्थाभिधायी । तदपूर्वत्वं तदुत्कृष्टस्य तनिकृष्टस्य च द्वयोरपि संभवतीत्याह – कोऽपि, अलौकिकः सातिशयः। सोऽपि किमर्थमित्याह–लोकोत्तरचमत्कारकारिवैचित्र्यसिद्धये असामान्याह्लादविधायिविचित्रभावसम्पत्तये । यद्यपि सन्ति शतश: काव्यालंकारास्तथापि न कुतश्चिदप्येवंविध