________________
[
छ
]
क्रमसं निविष्टानां व्यवस्थया छन्दःसिद्धिस्तत्राक्षरनियमाभावान्मात्रागण... . छन्दस्त्वेन व्यवहारः, यथा-आर्या-दोहा-कुण्डलिकादीति। ... ... वस्तुतस्तु प्रोक्तरूपेण विभक्तेषु गणवृत्तेषु वर्णव्यवस्थासामान्यात् वर्णवृत्तानतिरिक्तत्वं पश्यन्तिं विवेचकाः। तथा च वर्णवृत्तं मात्रावृत्तमिति द्वयमेव पद्यच्छन्दोविभाजकमिति युक्तमुत्पश्यामः।
स्वमते तु 'वृत्तम्' ( १.१२ ) इति सूत्रवृत्ती-प्राङ्मात्राच्छन्दोभ्यो यदभिधास्यते तद्वत्तत्संज्ञ ज्ञेयम् । तच्च स्थिरे गुरुलघ्वक्षरविन्यासमिष्यतेपाटनसंयोगयोरभावात् । मात्राच्छन्दांसि तु जातिरिति प्रसिद्धानि" इत्युक्त्वा पूर्वोदाहृतं हलायुधटीकास्थितं पद्यमेव स्वमतोपोद्वलकत्वेन विन्यस्तम्, यदाहु:
"पद्य चतुष्पदी तच्च वृत्तं जातिरिति द्विधा ।" इति । . एव च वृत्तं जातिरिति द्विधंव विभागः संमतः। तत्र वृत्ते यत्र यो गणो यावद्भिर्यथोक्तलघुगुरुप्रस्तारक्रमवद्भिरक्षरनिरूपितः स तथैव निबद्धव्य इति तत्र गुरुलघूनां स्थिरत्वं, न तु मात्राच्छन्दोवत् गुरोर्ल घुद्वयकल्पनया पाटनं, लघुद्वयस्यैकगुरुत्वकल्पनया वा संयोगस्तत्र भवतीति तस्याक्षरवृत्तत्वम् । मात्राच्छन्द:सु, तु यथाकथंचित्तावन्मात्रापूतिरिति नाक्षरविन्यासे स्थिरतेति भेदः । . तत्र वस्तुगत्या नियतस्थानानियतस्थानाभिर्वा मात्राभिनियताक्षरव्यूह एव छन्दः, मात्राप्रस्तारस्वरूपाणां वर्णप्रस्तारेषु वर्णप्रस्तारस्वरूपाणां वा मात्राप्रस्तारेषु च यथायथमन्तर्भावः क्रियते। ततो वर्णवृत्तमात्रावृत्तंति भेद. करणमापाततो निर्मूलं प्रतिभाति । तथापि वर्णगणविशेषरूप पिण्डापेक्षया वर्णवृत्तत्वम्, तदुपेक्षया च मात्रावृत्तत्वमिति विभागपरिकल्पनेति विज्ञेयम् । - तेषु च छन्दःप्रकारभेदेषु वर्णात्मकेषु मात्रात्मकेषु वा उक्ताद्यवान्तरजातयः परिकल्पिता इति' वृत्तेष्वपि कथं जातिपरकल्पनेति न भ्रमितव्यम्; तासां सामान्यबोधकत्वेन मात्रात्मकछन्दोवाचिजातेव्यतिरेकात् । वर्णवृत्तसमुदायान्तर्गतोक्तादिजातयः तत्तदक्षरसंख्याव्यवस्थितानां वृत्ताना' परस्परव्यावत्तिकाः सामान्यरूपा इति बोध्यम् । न ताबता वृत्तं जातिरिति द्विधाकल्पितस्य विभागस्य व्याघात इति ।