SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ कारक विवरणम् १ क्तेनन्तव्याप्यतो गौणान्नामतः सप्तमी भवेत् । अधीती द्वादशाङ्गेऽयं गृहीती संयमे मुनिः क्रियारम्भो यदर्थः स्यात्तदर्थाद्याप्यसंयुतात् । सप्तमी गौणतो नाम्नो मौक्तिकें शुक्तिकाचितिः असाधुध्वनिना युक्ताद्गौणतः सप्तमी, न चेत् । प्रत्यादयः प्रयुज्यन्ते मैत्रोऽसाधुः स्वमातरि साधुशब्देनाऽन्वितात्स्यात्सप्तमी गौणतो, न चेत् । प्रत्यादयः प्रयुज्यन्ते साधुमैत्रो महीपतौ साधुनिपुणशब्दाभ्यामन्वितात्सप्तमी भवेत् । गौणादची भवेद्गम्या प्रत्यादि र्न प्रयुज्यते निपुणो जनके मैश्चैत्रश्च निजमातरि । श्रुते स निपुणः साधुः साधुश्चारित्रपालने स्वस्वामिनोर्वर्त्तमानाद् गौणात्स्यादधिना युतात् । . सप्तम्यधि जिने लोका लोकेष्वधि जिनो यथा वृत्तिमतोऽधिक्यर्थे सप्तमी स्यादुपेन युताद्वैौणात् । अस्त्युपखाय द्रोणस्तथोप रूप्यके पणानि दश अन्यदीयक्रिया यस्य क्रियया परिलक्ष्यते । तद्वृत्तेः सप्तमी गौणाद् भावे गम्येऽपि जायते जन्मोत्सवार्थमागच्छन् सुरा जाते जिनेश्वरे । 119 11 ॥ ८ ॥ ॥ ९ ॥ ॥ १० ॥ ॥ ११ ॥ ॥ १२ ॥ ॥ १३ ॥ ॥ १४ ॥ ॥ १५ ॥ १ क्तान्ताद् य इन् प्रत्ययस्तदन्तस्य यो व्याप्यस्तत इत्यर्थः । 10
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy