________________
कारकविवरणम्
वैषयिकाऽधिकरणत्वं युद्धादीनाम् । किन्तु युद्धादिनिमित्तानि सन्नह. नादीनीति तानि नैमित्तिकान्यधिकरणानीत्याशयः । ___अत्रेदं विचारणीयम्-मोक्षे इच्छाऽस्तीत्यादौ न मोक्षादय इच्छादीनां निमित्तम् , उपश्लेषाद्यभावाच्च न प्रकारान्तरेणाऽधिकरणत्वसम्भवस्तेषाम् । नाऽपीच्छादीनामनन्यभावः, घटादावपि तेषां सत्त्वात् । न च तचदिच्छादीनामनन्यभाव एव । अत एव मोक्षविषयिणीच्छेत्येव ततः प्रतीयते सर्वे ने तु मोक्षनिमित्तमिति वाच्यम् । एवन्तर्हि तत्तत्सन्नहनादीनामप्यनन्यभाव एवेति युद्धादीनि वैषयिकाधिकरणान्येव न नैमित्तिकाधिकरणानीति नैमित्तिकमधिकरणं नास्तीति ॥ ६४ ॥
सामीप्यकमधिकरणमाह-- २ सामीप्यकं क्रियाहेतुर्यत्स्यात्सन्निधिमात्रतः । घोषस्तिष्ठति गङ्गायां गुरौ वसति भक्तिमान् ॥६५॥
सामीप्यकमिति । समीपशब्दाद् भेषजादित्वात्स्वार्थे ट्यण् । ततो यावादित्वात्के सामीप्यकम् । घोष इति । गङ्गादयो हि सन्निधानमात्रेण घोषादिस्थितिहेतव इति तेषां सामीप्यकाधिकरणता । न च गङ्गादयो घोषानाश्रयाः, यदधीना हि यस्य स्थितिः स तदाश्रयः । यथा पुरुषो राजाश्रयः । अस्ति च घोषादीनां गङ्गाद्यधीनं स्थित्यादि ।
२ 'समीपमेव सामीप्यं गङ्गायां घोष उन्मदः। आकाशे शकुनिर्याति' इति क० ग० पाठः । किन्त्वनाऽऽकाशं न सामीप्यकमधिकरणम् , किन्तु शकुनेरनन्यत्रभावाद्वैषयिकमाकाशैकदेशसंयोगादौपश्लेषिकमेव वेत्युपेक्षितम् ।