________________
कारकविवरणम्
. राज्ञ इति । राज्ञो दण्डं दत्ते, नतः पृष्ठं दत्ते इति वाक्यम् । अत्र राजानं नन्तं चोद्दिश्य दानमिति सम्प्रदानत्वाऽऽशङ्का । दित्साग्र. हणाच्च स्वतो दित्सा गृह्यते । अपराधादिनिमित्तं दण्डितो हि भयादिना राज्ञो दण्डं दत्ते, न तु तत्र स्वतो दित्सेति दित्सां विना दण्डदानाsसम्भवेऽपि न क्षतिः । तथा मस्तकादिषु घातस्य दुःसहत्वं घातस्य चाऽनिवार्यत्वमन्याङ्गापेक्षया पृष्ठस्य घातक्षमत्वञ्च पश्यन् पृष्ठं घाताsभिमुख कुर्वन् प्रतः पृष्ठं दत्त इत्युच्यते । तत्राऽपि स्वतो दित्साऽभावः, नहि कोऽपि स्वतो दण्डं घातार्थ पृष्ठं च दित्सति । अस्त्वेवम् , किन्तु ' शतं भट्टस्य दत्ते' इत्यत्र स्वतो दित्सासत्त्वाद् भट्टस्य सम्प्रदानता प्राप्नोतीति चेन्न । तदाह-नाचैत्यादि । ऋणादिरूपेण दाने ह्याद्यभावान्न सम्प्रदानतेति । एवञ्चाऽचीदिकाम्यया स्वतो दित्सायामेव सम्प्रदानता । अत एव लक्षणे तथोक्तमित्याशयः ॥ ५६ ॥
ननु रजकस्यांऽशुकं दत्ते, भाटकेन गृहं दत्त विप्रस्येत्यादौ च दित्साया विद्यमानतया सम्प्रदानता प्राप्नोतीत्याशय समाधत्ते--
सम्प्रदानं तदेव स्यात्यागभावयुतं च यत् । दीयमानेन संयोगात्स्वामित्वं लभते च यत् ॥ ५७ ॥ रजकस्यांऽशुकं दत्ते १ त्यागाऽभावोत्र दृश्यते । भाटकेन गृहं दत्ते विप्रस्य स्वामिताज न ॥ ५८ ॥ त्यागेति । त्यागभावनया दाने युद्देश्यस्य सम्प्रदानता । किञ्च
१ ' त्यागभाव' इति क० ग० पाठः ।