SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ४२ कारकविवरणम् धुत्वाऽऽपत्तेरिति पर्यायेणोभयत्रैवोक्तत्वमेष्टव्यमिति णिगन्तस्थले सर्वत्रैव पर्यायेणोक्तत्वमिति ॥ ४७ ॥ • सम्प्रत्युपसंहरन् सङ्कलयति इत्येतत्प्राप्यं निर्वत्य विकार्य प्रथमं त्रिधा । १ इष्टानिष्टाऽनुभयतो २ नवधा जायते ३ च तत् ॥४८॥ प्रधानेतरभेदाभ्यां तदष्टादशधा पुनः । इति कर्मप्रपञ्चोऽयं सङक्षेपाद्दर्शितो मया ॥४९॥ इतीति । उक्तरीत्येत्यर्थः । एतदिति । कर्मेत्यर्थः । प्रथममिति । मूलत इत्यर्थः । नवधेति । प्रत्येकं त्रिविधमिति गुणनतो नवधेत्यर्थः । इतरेति । गौणेत्यर्थः । तदिति । नवधा कर्मेत्यर्थः ॥ ४८ ॥ ४९ ॥ १ क्रियाविशेषणस्याऽपि सकर्मकाऽकर्मधातुषु । नपुंसकत्वमेकत्वं कर्मत्वं तत्प्रयुज्यते ॥१॥ यथा स्तोक पचत्येषा ब्राह्मणी सर्वमत्ति च । शीघ्रमुत्पाद्यते कुम्भः सुखं जीवति गौर्गलिः' ॥२॥ इति श्लोकद्वयमधिकमत्र पठ्यते क० ग० पुस्तके । किन्त्वत्र क्रियाविशेषणानां कर्मत्वोक्तिः प्रामादिकी। शास्त्रकारैरननुशासनात् , 'अथो पचति शोभनं ते भार्या' इत्यादौ विकल्पेन 'ते मे' इत्यादिविधानं मा भूदिति तत्र द्वितीयाविभक्तिमात्रमेवाऽनुशिष्टम् । कर्मत्वे च 'शोभनं पक्ते' त्यादी कृयोगे षष्ठ्याः ' मन्दं गन्ते' त्यादौ चतुर्थ्याश्वाऽऽपत्ते ाख्यात्रा तदुपेक्षितमिति बोध्यम् । २'यभेदेरि ति क. ग. पाठः। ३ 'हि' इति क० पाठः ।
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy