SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ कारकविवरणम् अथ बोधाऽऽहारार्थशब्दकर्मवतामुभयोरप्युक्तत्वमित्युक्तम् , ततश्व पारिशेष्याद् द्विकर्मणो धातोरेकस्येति गत्यर्थाऽकाणं एव णिगन्ता गृह्यन्ते । तत्स्पष्टप्रतिपत्तये स्वयमेवाऽऽह गत्यर्थाऽकर्मकाणां स्यादित्युक्तं कर्म मुख्यकम् । ग्रामं गम्यः स त मैत्रस्तैमैत्रो मासमास्यते ॥४६॥ गत्यर्थति । गत्यर्थाऽकर्मकाणां मुख्यकं कर्मोक्तं स्यादित्यन्वयः । मुख्यकमिति । मुख्यमित्यर्थः । स्वार्थ कः । इतीत्युदाहरणप्रदर्शने भिन्नक्रमः । गत्यानामकर्मकाणां च णिगन्तानां मुख्यं कर्मोक्तं स्यादित्यर्थः । तत्रोदाहरणमाह-ग्राममिति । अत्र णिगन्तस्य मुख्यकर्मणि ये उक्ततया ततः प्रथमा । आस्यत इत्यकर्मकाण्णिगन्तात्कर्मणि तेप्रत्यये मुख्यकर्मणो मैत्रस्योक्ततया ततः प्रथमा ॥४६॥ उपसंहरन् गौणस्याऽप्युक्तत्वमाह--- . १ षटकारकेष्विति प्रोक्तमन्यद्वा वक्ति कर्मजः । ग्रामो गम्यः स त मैत्रं ते मैत्रं मास २ आस्यते ॥४७॥ पडिति । इति-उक्तप्रकारमुख्यत्वम् , षट्सु कारकेषु प्रोक्तम् । तथा च यथा कर्मणि प्रत्यये कर्मभः कर्तरि प्रत्यये च कर्तुरुक्तत्वम् , तथा करणे प्रत्यये करणस्य, यथा स्नानीयं चूर्णमित्यादौ, सम्प्रदाने प्रत्यये सम्प्रदानस्य, यथा दानीयो विप्र इत्यादौ, अपादाने प्रत्ययेऽपादानस्य, यथा भीमः सिंह इत्यादौ, अधिकरणे प्रत्ययेऽधि १ 'त्वि' ति क. पाठः । २ 'मा' इति ग• पाठः ।
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy