SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ कारकविवरणम् वत्प्रधानक्रियाविषयायास्तस्या अनुक्तत्वेऽप्रधानविषयाया अप्यनुक्तवत्प्रतिभासात् । १ किञ्च प्रधानक्रियापेक्षक्ताऽनुक्तप्रधानशक्त्यनुरोधेनैव विभक्तिप्रवृत्तिः । कारकाणां प्रधानक्रियाऽनुरोधित्वात्तदर्थकविभक्तेरपि तदनुरोधेनैव प्रवृत्तेरौचित्यात् , प्रधानेन हि व्यपदेशा भवन्तीति न्यायादितिदिक् । अथ कृतपूर्वी कटमित्यादौ क्तप्रत्ययेन कर्मण उक्ततया कथं द्वितीयेति चेत् , इदमत्र बोव्यम्-नाऽत्र कृतेतिक्तान्तेन कटस्य योगः, तस्य वृत्तत्वाद् वृत्तस्य च २ विशेषणायोगात् । न च कमीऽसम्बन्धे क्तो दुर्लभः, कर्मविशेषसम्बन्धाऽनपेक्षतया, भावे वा तद्विधानात् । एवं. च कृतं पूर्वमनेनेति कृतपूर्वीति प्रसाध्य पश्चात्किमिति करोतिक्रियाफलाश्रयजिज्ञासायां कटमित्यनुप्रयुज्यते, ततश्च करोतिक्रियाव्याप्यतया कटस्य कर्मत्वं करोतिक्रियावता कीऽन्वयश्च । न चोपसर्जनीभूतक्रियायाः कर्मणा नाऽभिसम्बन्धः, ग्रामं गतो देवदत्तो भोक्ष्यत इत्यादौ कर्तृविशेषणतयोपसर्जनीभूताया अपि गत्यादिक्रियाया - १ ननु प्रधानक्रियाविषयायाः कर्मशक्तेर नुक्तत्वेऽप्रधान कियाविषयायास्तस्यास्तत्त्वमयुक्तम् , द्वयोमेंदाद्भिन्ननिमित्तत्वात् ,' विनिगमनाविरहाच्चाऽ. प्रधानक्रियाविषयाया उक्तत्वात्प्रधानक्रियाविषयाया अपि कर्मत्वशक्तेरुक्तवत्प्रतिभास इत्येवं वक्तुं शक्यत्वाच्चेत्यपरितोषादाह-किञ्चेति । २ तथा च वार्तिकम्-" सविशेषणानां वृत्ति न वृत्तस्य च विशेषणयोगो ने" ति । यत्तु कृतपदस्य कटसापेक्षत्वे 'सापेक्षमसमर्थवदि' त्यसामाद् वृत्तिरेव न स्यादिति, तन्न । नित्यसापेक्षस्थले 'देवदत्तस्य गुरुकुलमित्यादिवद् वृत्तः सम्भवात् ।
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy