SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ कारक विवरणम् नामित्यर्थः । नित्याकर्मकाणां तु नित्यमेवेति प्रागेवोक्तम् । अत एवं तत्र नित्यग्रहणम् । यद्यपि तत्र नित्यग्रहणाभावेऽपि न क्षतिः, अविवक्षितकर्मणां वेत्युक्त्या परिशेषात्तत्र नित्याऽकर्मकाणामेव ग्रहणादिति विचारणीयम् | अविवक्षितकर्मता च किं करोतीति व्यापारमात्रप्रने तदुत्तरयितुस्तावन्मात्रमेवोत्तितीर्षितम्, अन्यथाऽनपेक्षितभाषितयोन्मत्तत्वापत्तिरिति शब्देन कर्मणोऽसमर्पणाद्बोध्या । यदुद्धृतं प्राक् " धातोरथान्तरे वृत्तेर्धात्वर्थेनोपसङ्ग्रहात् । प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रिये " ति ॥ १ ॥ उदाहरणमाह-पाचयतीति । अत्र चैत्रकर्तृकपचनानुकूलव्यापारमात्रं विवक्षितमिति तस्याऽणिक्कर्तुर्णिगि वा कर्मता । विकल्पपक्षेऽनुकर्तृत्वात्तृतीया ॥ ४१ ॥ सम्प्रति कर्मणः कथमुक्तत्वमित्याकाङ्क्षायां विशेषविवक्षयाऽऽह त्यादिनाऽथ समासेन तद्धितेन कृताऽपि च । उक्तत्वं कर्मणः कुम्भः कुलालैः क्रियते यथा ॥ ४२ ॥ आरूढवानरो वृक्षः शत्यश्च शतिकः पटः कृतः कटस्तै: त्यादिनेति । त्यादिघटकेन कर्मणि विहितेनाऽऽत्मनेपदसंज्ञकेन तेप्रभृतिप्रत्ययेनेति बोध्यम् । परस्मैपदसंज्ञकस्य त्यादेः कर्तर्येव विधानात्तेन कर्मण उक्तत्वाऽसम्भवात् । क्रमेणोदाहरणांन्याहकुम्भ इति । कर्मणि द्वितीया विधीयते, कर्मरूपोऽर्थश्च तेप्रत्ययेनोक्त
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy