________________
कारकविवरणम्
उह्यते । तण्डुलानोदनं पचति । तण्डुला ओदनं पच्यन्ते । देवदत्तं शतं जयति, दण्डयति वा । देवदत्तः शतं जीयते। देवदत्तं शतं गृह्णाति, उपादत्ते वा । देवदत्तः शतं गृह्यते । मन्दुरामश्वं मुष्णाति, अपहरति, चोरयति वा । मन्दुराऽश्वं मुष्यते । ग्रामं शाखां कर्षति, ग्रामं शाखा कृष्यते । क्षीरनिधिममृतं मथ्नाति, विलोडयति वा । क्षीरनिधिरमृतं मथ्यते । काशान् कटं करोति, निर्माति, रचयति, विदधाति, सम्पादयति, जनयंति वा । काशाः कटं क्रियन्ते । ग्राम भारं हरति, ग्रामं भारो ह्वियते' इति ॥ २७ ॥
सम्प्रति कथमेषां द्विकर्मकत्वमित्यपेक्षायामाह
अपादानादिकविधि बाधित्वा धातवो ह्यमी। द्विकर्मका भवन्तीति २ कथितं पूर्वकोविदः ॥ २८॥
बाधित्वेति । बाधश्चाऽवधित्वाद्यविवक्षणेनाऽपादानादिसंज्ञाऽभावात्तत्प्रयुक्तविधेरप्राप्तिरूपः । क्रियाव्याप्यत्वविवक्षणाच्च तत्र तत्र कर्मविधिः । यथाश्रुतं तु न सम्यक् । एवं सति हि सर्वत्रैवाऽऽपादानादिकविधे बाधापत्त्या 'गो दोग्धि पय ' इति वाक्यस्याऽसाधुत्वापत्तेः । तस्मादपादानत्वादिविवक्षायां तद्विधिः, तदविवक्षायां क्रियाव्याप्यत्वविवक्षायां च कर्मविधिरित्येव सम्यक् । तत एवाऽऽह बृहन्न्यासे-गां दोग्धि पय इत्यादौ गोः पय आदत्ते इत्याद्याऽवसायादपादानत्वमाशक्य-" तस्मादत्र यत्नान्तरं कर्त्तव्यम् , नैतदस्ति, अवधित्वाद्यविवक्षायां क्रियानिमित्तभावमात्रेण तद्व्याप्यत्वस्य विवक्षितत्वात् ‘कर्तु
२' कथिताः' इति क० ग. पाठः ।