________________
१६
कारक विवरणम्
पुनस्त्रिधा भवेदिष्टाऽनिष्टाऽनु भयभेदतः । तथैवाकथितं कर्म कर्तृकर्म तथाऽपरम् ॥ १७ ॥ यत्क्रियत इति । क्रियाजन्यफलाश्रयः इत्यर्थः । भेदैरिति । अवान्तरविशेषैरित्यर्थः । तुः पूर्वस्मात्कर्तुर्विशेषे ! तमेवाह - अनेकधेति । बहुविधमित्यर्थः । कालादीनां सर्वक्रियास्वाधारादीनां च क्रियाविशेषे कर्मत्वाऽनुशासनादनुगतरूपेण तत्सङ्कलनस्य दुष्करत्वादिति बोध्यम् । तथापि पूर्वाचार्यैः समान्यतः कृतानुगमान् भेदानाहनिर्वर्त्यमिति । पुनस्त्रिधेति । तत्त्रविधमपि प्रत्येकं त्रिधेत्यर्थः । अनुभयेति । इष्टानिष्टभिन्नमित्यर्थः । अकथितमिति । एतच्चाग्रे स्फुटीभविष्यति । कर्तृकर्मेति । एतदप्यये स्फुटीभविष्यति ॥ १६ ॥ ॥ १७ ॥
सम्प्रति निर्व सलक्षणोदाहरणमाहयदसज्जायते यच्च जन्मना वा १ प्रकाशते ।
तन्निर्व करोत्येष कटं सूते सुतं यथा ॥ १८ ॥ जायत इति । उत्पद्यत इत्यर्थः । जन्मनेति । अत्राऽभिव्यक्तिरेव जन्म, असतः सतो वा निर्वर्त्तनाऽयोगात् । न चैवं 'यदसज्जायत इत्यसङ्गतम् । द्वेषा हि निर्वृत्तिः, केषाञ्चिन्मतेऽसत उत्पत्तिः, अन्येषां च मते सतोऽभिव्यक्तिः । व्याकरणस्य च वस्तुस्वरूपनिर्णया ऽनधिकृतत्वाच्छब्दव्युत्पादन एव च व्यापाराद्यथास्वमति व्युत्पादनं
' प्रकाश्यते इति क० ग० पाठः । किन्तु 'जायते' इत्येतत्पर्यालोचनया प्रकाशते इत्येव पाठ आस्थितः ।
"
>