SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ १९८ कारकव्याश्रय काव्यम् शरदा किं परिक्रीताः सहस्राया १ ऽयुतेन २ वा । अलं केल्यै ३ श्रियै ४ शक्ता हंसास्तस्या यदन्वयुः ॥ ६५ ॥ शरदेति । हंसाः स्वनामप्रसिद्धाः पक्षिणः । केल्यै क्रीडायै अलं शक्ताः श्रियै शोभायै शक्ताः समर्थः । हंसा: क्रीडासाधनं शोभाहेतुश्च स्वयमपि च ते क्रीडापराः शोभमानाश्चेत्यतः शरदा तदाख्यर्तुना सहस्राय सहस्रसुवर्णादिमुद्रयाऽयुतेन दशसहस्रसुवणीदिमुद्रया वा परिक्रीताः नियतकालं स्वायत्तीकृताः किमित्युत्प्रेक्षायाम् । यद् यस्मात्ते तस्याः शरदोऽन्वयुरनुसरणं विदधुः । सेवका हि क्रीडाशोभादिनिपुणा वेतनादिना स्वयत्तीक्रियन्ते धनिकैः काले । ते च ताननुसरन्ति नियतकालं यावत् । हंसाश्च शरदि समागच्छन्ति, ततस्तथोत्प्रेक्षेति बोध्यम् ॥ ६५ ॥ : स्वधा पितृभ्य १ इन्द्राय २ वषट् स्वाहा हविर्भुजे ३ । नमो देवेभ्य इत्युत्विग्वाचः सस्यश्रियाऽफलन् || ६६ ।। ४ स्वधेत्यादि । पितृभ्योऽभिष्वात्तादिभ्यः पितृभ्यः स्वधा हविस्त्यागोऽस्तु, इन्द्राय देवेन्द्राय वषट् हविस्त्यागोऽस्तु हवि - र्भुजेऽग्नये स्वाहा हविस्त्यागोऽम्तु, देवभ्यो नमो नमस्कारोऽस्तु, इतीत्थम् ऋत्विग्वाचः ऋत्विजां पुरोहितानामृतौ वर्ष वर्षविघ्ननि १-२ वेतनादिना कियत्कालात्मसात्कारे परिक्रयणे वा यथं चतुर्थी तृतीया च । ३ - ४ शक्तार्थैर्योगे चतुर्थी ॥ ६५ ॥ १-२-३-४ स्वधादिशब्दयोगे चतुर्थी ॥ ६६ ॥ चतुर्थीति यथा
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy