SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ भद्रकरोदयाख्यव्याख्यासहितम् सम्प्रायच्छदित्यादि । हंसो यद् बिसं मृणालं हंस्यै स्वप्रियायै सम्प्रायच्छद्ददौ तत् हंसदत्तं बिसं तन्मुदे तस्या हंस्या मुदे हर्षायाऽभवत् । तत्समर्थयन्नाह - अथवेति । आत्मने स्वस्मै रोचनात् रोचते इत्येवंशीलो रोचन स्तस्मात्प्रियाल्लब्धं प्रेम्णा प्राप्तं किमपि वस्तु, कस्मै न स्वदते रोचते । काक्वा प्रियेण लब्धं सर्वस्याऽपि मु जायते इत्यर्थः । शरदि हंसानामागमात्तत्केलिरपि प्रवर्त्तते ॥ ५३ ॥ १८९. जज्ञे स्वात्यम्बु मुक्ताभ्यो १ दुग्धं दध्ने २ न्वकल्पत । रिक्तोऽपि न ययौ मेघः शरदे ३ धारयन् ऋणम् ॥५४ || जज्ञे इत्यादि । स्वयम् स्वाती लक्षणया स्वातिनक्षत्रयुक्त--. सूर्ययुक्तकालेऽम्बु वृष्टं जलं मुक्ताभ्यो जज्ञे मुक्तारूपविकारमापन्नम् । स्वात्यम्बु शुक्तिमुखे पतितं मुक्ता सम्पद्यत इति लोकप्रसिद्धिरिति बोध्यम् । न्वित्युपमायाम् । यथा दुग्धं क्षीरं दध्नेऽकल्पत दधिरूपविका रमा पन्नं तथेत्यर्थः । शरदि दुग्धं दधि च कालान्तराऽपेक्षया प्रशस्तं च भवति । किञ्च रिक्तोऽपि जलरहितोऽपि मेघः शरदे तदाख्यत्वे ऋणं धारयन्निवेति लुप्तोत्प्रेक्षा । न ययौ किन्तु तस्थावेव । ऋणग्रस्तो ह्युत्तमणाऽधीनो भवतीति ऋणमधमर्ण धरति, तच्च तच्छोधनाऽशक्तत्वाद्धारयन्निवेत्यर्थः । ततश्च यथा ऋणं धारयन् तदविशोध्य न गच्छति, रिक्तत्वाचच्छोधनाsशक्तेः, तथा मेघोऽपि १ - २ क्लुप्यर्थयोगे विकारे चतुर्थी । ३ धारेर्योगे उत्तमर्णे चतुर्थी ॥ ५४ ॥ 25
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy