SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ भद्रकरोदयाख्यध्याख्यासहितम् . १६९ पराक्रमिणां स्वयं पराक्रमो दृष्ट इति भावः । ततो ग्राहरिपोः जगत्प्रजा अवन् रक्षन् सन् , ग्राहरिपोः प्रजारक्षणविधावित्यर्थः । स्वयं यानादभियानात् , महान् श्रमोऽत्रेति विरज्य मा विरम निवर्तस्व, मा प्रमाद्य दण्डनेत्रादिनवैष साध्य इत्यालस्यं मा गाः । तथा मा जुगुप्सस्व हीनोऽयं महानुभावस्य ममाऽभियातुमयोग्य इति कुत्सामारोप्य मा निवर्तस्व । किन्तु बलवान् दुराचारी चाऽयं मयाऽवश्यं वध्य इत्युत्साहं प्राप्नुहीत्यर्थः ॥ २६ ॥ बलवानप्येकोऽयमकिञ्चित्कर इति भ्रमनिरासायाहयुधो १ ऽपराजिष्णुररे २ रभीरुस्त्राता तुरुष्कानपि कच्छदेशात् ३ । कुतो ४ ऽप्यनन्तर्दधदस्य सोऽस्ति लक्षः सखा जात इवैकमातुः ५ ॥ २७ ॥ युध इत्यादि । अस्य ग्राहरिपोः, युधो रणादपराजिष्णुरग्लास्नुः, युधि सोत्साह इत्यर्थः । तथाऽरेः शत्रो बलवतोऽपि अभीरुरत्रस्नुः, कुतोऽप्यरे भयमप्राप्नुवन्नित्यर्थः । कच्छदेशात् तुरुष्कानपि, आसतामन्ये नृपाः, महाबलशालिनस्तुरुप्कानपि त्राता रक्षकः, निवारयितेत्यर्थः । तुरुष्काणां कच्छदेशाक्रमणप्रतिरोधक इत्याशयः । कुतोऽपि कस्मादपि अनन्तर्दधदनिलीयमानः, अनश्यन्नित्यर्थः, अत एव तादृशेरवदातगुणैः स प्रसिद्धो लक्षस्तदाख्यः कच्छेश एकमातु १-२-३-४-५ सर्वत्र बुद्धिकृतमपादानत्वं बोध्यम् ॥ २७ ॥
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy