SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ ॥ ॐ अहं नमः ॥ श्री नेमि-विज्ञान-कस्तूरसूरि-पन्यासश्रीयशोभद्रसद्गुरुभ्यो नमः । पण्डितश्रीअमरचन्द्रकृतं . कारकविवरणम् भद्रङ्करोदयाख्यव्याख्यया प्रभाख्यटिप्पण्या च विभूषितम् । कारकाणि कर्ता कर्म करणं सम्प्रदानकम् । अपादानमाधारः षट् स्युः सम्बन्धस्तु १ सप्तमम् ॥ १॥ - - रागद्वेषाऽजगरवदने क्रीडया सम्प्रविष्टानाभीराऽभानिव करुणया मानवांस्तद्विदाह । गोपायन्तं सुरनरनुतं ज्ञानिनां गौरवाई सेवन्तां द्राक् स्वहितमतयः 'श्री-पति' वर्धमानम् ॥ १॥ सन्तु जिनाः सुध्याताः सयो यत्सेवया सुगतिः । गुरवः सदा दयन्तां सद्बुद्धिः प्रसादाद् येषाम् ॥१॥ पठतां पथि पान्थानां पाथेयमिव टिप्पणीम् । सूर्योदयः प्रभां नाम वितनोति यथामति ॥ १ सप्तम इति क. ग. पाठः । स तु 'कारकाणी' ति क्लीबविशेष्याऽनन्वयापत्त्योपेक्षितः ।
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy