________________
कारकडाश्रयकाध्यमू
दुण्ड्यनू राजा दण्ड्यांश्चैवाऽप्यदएडयन । अयशो महदामोति राज्यान्ते नरकं बजेहि " ति ॥ १० ॥
पारलौकिकी हानिमुक्तवेदानीमैहलौकिकी तामाह-~अप्यन्तकं स्थान १ निकारयेत्स निकारयेस्तं यदि नात्मदण्डैः २ । उपेक्षिताः स्वं ह्यविकारयद्भिः सद्भिः ३ खलाः केन विकारयेयुः ॥ ११ ॥
अप्यन्तकमित्यादि । यदि तं ग्राहरिपुमात्मदण्डै दुष्टदण्डनसाधनैः स्वकीय दण्डैर्बलादिभिर्न निकारये निगृह्य प्रतिकारयेस्तदा स ग्राहरिपुः स्थाम स्वबलमन्तकं सर्वान्तकारिणं यसमपि निकारयेत्, स्वबलेन यमनिग्रहेऽपि प्रवर्ततेत्यर्थः । तदा तव का कथेति तस्मिन्न.. निगृहीते तवाऽपि ततो भयसित्याशयः । तदेव समर्थयन्नाह-हि यतः वं निजामानमविकास्यद्भिर्विकारमप्रापयद्भिः सद्भिः साधुचरितः, ग्राहमुपेश्य सामैव प्रयोजयद्भिरित्यर्थः । उपेक्षिताः खलाः के जनः कर्तृभित विकारयेयुः १, कान् विकारं गच्छतो न प्रेरयेयुः, अपि तु सा वेशादिसहितावपि विकृतान् विदध्युरित्यर्थः । एतदेव हि खलसमिति भावः ॥ ११ ॥
तस्मारक्षमा विहाय रुडेव भजनीयेत्याह---
१-२-३-४ करोतेरणिक्कर्तुणी पा कर्मतेति यथायथं द्वितीया तूतीया च ॥१॥
21:'
.