SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ श्रीविचारसप्ततिका वृत्तिसमेता तन्मध्योत्पन्नानि कमलानि लात्वा जिनायतने समागत्य सप्तदशादिभेदैः पञ्चशतधनुर्मानानां गर्भगृहस्थाष्टोत्तरशतसङ्ख्यजिनप्रतिमानां पूजां स्तुतिं नतिं च शक्रस्तवं यावद्वितन्वन्ति ८ । तदनु सर्वं विमानं चन्दनच्छटाक्षेपादिना पूजयित्वा नन्दापुष्करिणीतोऽग्रे बलिपीठं वर्तते, तत्रागत्य बलिं मुञ्चन्ति ९ । जीवाभिगमवृत्तौ विजयदेवाधिकारेऽष्टमस्थाने बलिपीठं दृश्यते, नवमस्थाने च वापी, तन्मतान्तरमवसीयते । प्रतिविमानमेतानि त्रिद्वाराणि नवप्राकाराणि मूलप्रासादावतंसकादीशानकोण एवानुक्रमेण वर्तन्ते, जीवाभिगमराजप्रश्नीयोपाङ्गादिग्रन्थेष्वपीत्युक्तत्वात् ॥२८॥ ७२ एषां नवानां मध्ये षट्सु स्थानकेषु प्रत्येकं त्रिषु द्वारेषु यद्वर्तते तदाह'मुहमंड पिच्छमंडव थूभं चेइअ' 'झओ अ ' पुक्खरिणी । जम्मुत्तरपुव्वासुं जिणभवणसभासु पत्तेअं ॥२९॥ पश्चिमां वर्जयित्वा याम्योत्तरपूर्वासु प्रतिदिशं प्रथमं मुखमण्डपः १ । तदग्रे प्रेक्षामण्डपः २ । तदग्रे स्तूपं तत्स्तूपस्योपरि अष्टौ मङ्गलानि, स्तूपाच्चतसृषु दिक्षु मणिपीठिकाः, तन्मणिपीठिकासु प्रत्येकमेकैका स्तूपाभिमुखा जिनप्रतिमा ऋषभ १ वर्धमान २ चन्द्रानन ३ वारिषेणा ४ ऽभिधाः सन्ति ३ । तदग्रे चैत्यमिति चैत्यवृक्षः ४ । तदग्रे इन्द्रध्वजः ५ । तदग्रे पुष्करिणी वापी जलपूर्णा ६ । एतानि षट् प्रकाराणि जिनभवने पञ्चसु सभासु च त्रिद्वारेषु प्रत्येकं सन्ति । जिनभवनसभादिनवानां प्रमाणं षण्णां मुखमण्डपादीनां प्रमाणं च राजप्रश्नीयोपाङ्गादिभ्यो ज्ञेयम् ॥२९॥ अथ मूलप्रासादावतंसकः क्वास्तीत्याह ओआरियलयणंमि अ पहुणो पणसीइ हुंति पासाया । तिसय इगचत्त कत्थय कत्थवि पणसट्ठि तेरसया ॥ ३० ॥ सौधर्मविमानेषु समन्तात् प्राकारः । स च योजनानां त्रीणि शतानि उच्चत्वेन, मूले चैकं योजनशतं पृथुलः, मध्यभागे पञ्चाशत्, सर्वोपरितनभागे पञ्चविंशतियोजनानि । भवनपतिनिकायभवनेषु प्राकारः तदर्धमान उच्चत्व
SR No.023431
Book TitleVichar Saptatika
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages110
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy