SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ( ४ ) श्रायुः श्रीफलजयदा दारुमयी मृन्मयी तथा प्रतिमा लोकहिताय मणिमयी सौवर्णी पुष्टिदा भवति ॥ ११ ॥ रजतमयी कीर्त्तिकरी प्रजावृद्धिं करोति ताम्रमयो । भूलाभं तु महान्तं शैलप्रतिमाऽथवा लिङ्गम् ॥ ११ ॥ प्रासादतुर्यभागस्य समाना प्रतिमा मता । उत्तमायुः कृते सा तु कार्य केनाधिकाङ्गुला ॥ १३ ॥ अथवा स्वदशांशेन हीनस्याप्यधिकस्य च । कार्या प्रासादपादस्य शिल्पिभिः प्रतिमा मता ? ॥ १४ ॥ सर्वेषामपि धातूनां रत्नस्फटिकयोरपि । प्रवालस्य च बिम्बेषु चैत्यमानं यदृच्छया ॥ १५ ॥ प्रासादगर्भगेहार्थे भित्तितः पञ्चधा कृते । यक्षाद्याः प्रथमे भागे देव्यः सर्वा द्वितीयके ॥ १६ ॥ विनायक स्कन्ध कृष्णानां प्रतिमाः स्युस्तृतीयके । पद्मा तु तुर्यभागे च लिङ्गमीशां न पञ्चमे ? ॥१७॥ भागे तृतीयेऽविम्बं स्यात् द्वितीयेऽम्बिकादयः ॥ १८ ॥ सने वाहने चैव परिवारे तथा युधे । नखाभरणवस्त्रेषु व्यङ्गदोषो न जायते ॥ १९ ॥ नासामुखे तथा नेत्रे हृदये नाभिमण्डले ।
SR No.023430
Book TitleGurutattva Siddhi
Original Sutra AuthorN/A
AuthorSuvihit Purvacharya
PublisherSatyavijay Smarak Jain Granthmala
Publication Year1928
Total Pages82
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy