SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ ( ५७ ) इति स्यात् ॥१३॥ युमष्माकं युवयोर्वाऽयमिति - यौष्माकः, यौष्माकीणः, अस्माकमावयोर्वाऽयमिति - आस्माकः, आस्माकीनः, तवाऽयमिति - तावकः, तावकीनः, ममाऽयमितिमामकः, मामकीनः, पक्षे ईये - युष्मदीयः, अस्मदीयः, त्वदीयः, मदीयः ॥१४॥ तृतीयान्तात् 'जित- जयत् - दीव्यत् - खनत्' इत्यर्थेषु इकण् स्यात् । अक्षैजितं जयति दीव्यतीति-आक्षिकम्, आक्षिकः, अभ्रेण खनतीति-आभ्रिकः ॥ १५ ॥ प्रज्ञादेः स्वार्थे अण् । प्रज्ञ एव-प्राज्ञः ॥१६॥ यवादेः स्वार्थे कः । याव एव यावकः ॥ १७॥ षष्ठ्यन्तात् समूहे अण् स्यात् । भिक्षायाः समूहःभैक्षम् ॥१८॥ राजादेः समूहे अकञ् स्यात् । राज्ञां समूहः-राजकम् ॥१६॥ ग्रामादेः समूहे तल् स्यात् । ग्रामाणां समूहः-ग्रामता, जनानां समूहः- जनता ॥२०॥
SR No.023427
Book TitleHemchandrika Vyakaranam
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherGyanopasak Samiti
Publication Year
Total Pages156
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy