SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ ( ३१ ) स्यादौ परे इदमो दस्यमः स्यात् । इमो इमे॥२७।। 'टा-ओस्'इति परे इदम्-अनस्यात्। अनेन ॥२८॥ व्यञ्जनादिस्यादौ परे इदम्-अस्यात्, अकि तु न । आभ्याम्, एभिः, एषु ॥२६॥ धुटि परे 'अनडुह -चतुरा'शब्दस्य उ-वा स्यात्, सम्बोधनसौ तु-व स्यात् । चत्वारः, चतुरः, चतुर्णाम् ॥३०॥ रुभिन्नरस्य सुपि र एव । चतुर्षु ॥३१॥ घुटि परे पुंसोः पुमन्स् स्यात् । पुमान्, पुमांसौ, पुंसः, पुंभ्याम् पुंसु। उशना, सम्बोधने-हे उशनन् ! हे उशन ! हे उशनः ! इति शेयम् । विद्वान् ॥३२॥ .. णिक्यघुटवर्जे यादौ स्वरादौ मतौ च प्रत्यये परे वस्-उष् स्यात् । विदुषः ॥३३॥ 'खंस्-ध्वंस-सान्तकस्-अनडुह' शब्दान्तस्य पदान्ते दः स्यात् । विद्वद्भ्याम् ॥३४॥ सौ अदसो दः सः स्यात्, सिश्च डौ स्यात् । असो ॥३५॥
SR No.023427
Book TitleHemchandrika Vyakaranam
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherGyanopasak Samiti
Publication Year
Total Pages156
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy