SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् वर्णादित्रिकं च पुनर्वर्णार्थालम्बनस्वरूपम्, वर्णा व्यक्ताः शुद्धाश्चोच्चार्याः, अर्थो वर्णार्थश्चिन्त्य आलम्बनं जिनबिम्बम् । मनोवचनकायजनितं प्रणिधानमपि त्रिविधं भवति, संवेगरसानुविद्धं चित्तस्थैर्यं मनः प्रणिधानम्, आलापसम्पत्सत्यापनयुक्तसूत्रोच्चारणं वचनप्रणिधानम्, निभृताङ्गोपाङ्गत्वं कायप्रणिधानम् ।। ३८ ।। ५० मुद्रात्रिकं पुनरत्र चैत्यवन्दनायां विज्ञेयं भवति, योगमुद्रादि योगमुद्रा, जिनमुद्रा मुक्ताशुक्तिमुद्राख्यम् । क्व तदित्याशङ्कायां वृद्धसाम्मत्यदर्शनायाह - हरिभद्रसूरिविरचितग्रन्थे पञ्चाशकाख्य इदं यतो भणितम् ।। ३९ ।। देव० : पुष्पामिषस्तुतिभेदात् त्रिविधा पूजा, नेनु पूर्वमष्टधा बहुधा च पूजोक्ता, इयं तु त्रिधेति कथं न विरोधः ? उच्यते, तेषु त्रिषु भेदेष्वष्टानामवशिष्टानां च भेदानामन्तर्भावो विवक्षावशात्, तथाहि-पुष्पोपादानात् स्नपनसमालभनमण्डनगन्धधूपवस्त्राभरणाद्यङ्गपूजासङ्ग्रहः, आमिषं नैवेद्यं तच्च तण्डुलफलपक्वान्नखण्डशर्करेक्षुजलदीपनृत्यवाद्यस्वस्तिकरङ्गावलीतोरणाद्यग्रपूजोपलक्षणम्, स्तुतिग्रहणादेकादिसप्तान्तश्लोकाष्टकचतुर्विंशतिकाद्वात्रिंशिकापञ्चाशिI अवस्थात्रिकं तु भवति भुवननाथस्येति योगः, किं तदित्याह -छद्मस्थश्च केवली च सिद्धश्च तेषां भावस्तत्त्वम्, छद्मस्थावस्था केवल्यवस्था सिद्धावस्था चेत्यर्थ इति ।। ३७ ।। काष्टोत्तरशतश्लोकबहुविधगीतादिस्तवनविधिपरिग्रहः वर्णादित्रिकं तु पुनरित्यव्ययं पुनः शब्दार्थे भवतीति योगः, वर्णार्थालम्बनस्वरूपम्, तुरेवकारार्थः, तत्र वर्णा व्याविद्धव्यत्याम्रेडितत्वादिदोषरहितान्यक्षराण्यर्थस्तदभिधेयम्, आलम्बनं जिनबिम्बमेतानि स्वरूपं यस्य तत्तथा तथा मनोवचनकायजनितं प्रणिधानमपि त्रिविधं भवति, तत्र संवेगरसानुविद्धमन्तःकरणस्थैर्यं मनः प्रणिधानम्, प्रतिकुञ्चितादिदोषरहितसूत्रोच्चारणं वचनप्रणिधानम्, निभृताङ्गोपाङ्गत्वं कायप्रणिधानमिति ।। ३८ ।। तथा मुद्रात्रिकं पुनरित्थमित्यनुस्वारस्य प्राकृतप्रभवत्वादत्र चैत्यवन्दनायां विज्ञेयं भवति योगमुद्रादि, योगमुद्रा जिनमुद्रा मुक्ताशुक्तिमुद्रालक्षणम् । कुतः पुनरिदमित्याशङ्कायां वृद्धसम्मतमुपदर्शयितुकाम उत्तरार्धमाह सुगमा, नवरं हरिभद्रसूरिविरचितग्रन्थे पञ्चाशकाख्य इति ।। ३९ ।। १. तत्र पुष्पाणि जलस्थलजानि, गन्धधूपागरुस्नपनविलेपनवस्त्राभरणादीनां पुष्पप्रकाराणामुपलक्षणं चेदम्, आमिषं नैवेद्यमनेनाप्यखण्डाक्षतफलजलघृतप्रदीपादीनि नैवेद्यप्रकाराण्युपलक्ष्यन्ते 1 स्तुतिरेकद्वित्र्यादिश्लोकमाना 1 गम्भीरातिशयोक्तिस्तवदण्डककुलकादीनि स्तुतिप्रकाराण्येतदप्युपलक्षयतीति । T,B.C. -
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy