SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ १-देवतत्त्वम् गा-३४, ३५ साक्षादभिहितत्वात् । तथाहि- 'तएणं से विजए देवे चउहिं सामाणियसाहस्सीहिं जाव अन्नेहिं य बहूहिं वाणमंतरेहिं देवेहिं देवीहिं य सद्धि संपरिवुडे सव्वड्डीए सव्वजुईए जाव निग्घोसनाइयरवेणं जेणेव सिद्धाययणे तेणेव उवागच्छइ, उवगच्छइत्ता सिद्धाययणं अणुप्पयाहिणी करेमाणे करेमाणे पुरथिमिल्लेणं दारेणं अणुपविसइ'त्ति । एतद्व्याख्या च-ततो देवपरिवृतः सिद्धायतनमागच्छति त्रिःप्रदक्षिणां करोतीति । तस्मादविदितसिद्धान्तयुक्तेरिदं वच इत्युपेक्षणीयमिति । तथा त्रयः प्रकर्षेण भक्त्यतिशयेन नमनानि भूमौ मूश्लेिषलक्षणानि प्रणामास्तिस्रो विधाः प्रकारा यस्यां सा, तथा पूजार्चा वक्ष्यमाणा अवस्थात्रिकभावनमपि वक्ष्यमाणमेव । तथा तिस्रश्चोर्ध्वाधस्तिर्यग्लक्षणास्ता दिशश्च तासां निरीक्षणविरतिः, जिनबिम्बसन्मुखमेवावलोकनीयमिति हृदयम् । तिस्रो विधा वारा लक्षणा यस्य तत्तथा चरणयोरधोऽन्तराले चेत्यर्थः, भूमिप्रमार्जनम् । वर्णादित्रिकं मुद्रात्रिकं त्रिविधं च प्रणिधानं वक्ष्यमाणस्वरूपम्, अव्ययानि सर्वाणि समुच्चयार्थान्येतानि च त्रिकाणि प्रायो भणितक्रमेणैव कर्त्तव्यानीति गाथाद्वयार्थः ।।३४, ३५।। * प्रवचनसारोद्धारे-६६, ६७ * तिनि निसीहि य तिन्नि य पयाहिणा तिन्नि चेव य पणामा । तिविहा पूया य तहा अवत्थतियभावणं चेव ।। १-चैत्यगृहे च प्रविशन् नैषेधिकीत्रयं करोति-जिनगृहस्य द्वारभागे मध्यप्रदेशे गर्भगृहदेशे च, तत्र प्रथमा गृहादिविषये कायकार्याणां व्यापाराणां निषेधेन निर्वृत्ता नैषेधिकी, द्वितीया तद्विषय एव वचनव्यापारविधेयानां कार्याणां निषेधेन निर्वृत्ता, तृतीया तु गृहादिविषय एव मनसा चिन्तनीयानां कार्याणां निषेधेन निर्वृत्तेति सम्प्रदायः, सूत्रकारेण तु नैषेधिकीत्रितयं विवृण्वता-'घरजिणहरजिणपूयावावारञ्चायओ निसीहितिगं' इत्युक्तम्, तत्राप्ययमर्थः-प्रथमनैषेधिक्यां गृहादिगतसकलसावधव्यापारपरम्पराप्रतिषेधः प्रतिपादितः, द्वितीयनैषेधिक्यां जिनगृहविषयपाषाणादिघटापनप्रभृतिसर्वसावधव्यापारपूरः प्रत्यषेधि, तृतीयनैषेधिक्यां तु पुष्पफलपानीयप्रदीपप्रमुखपदार्थसार्थसमानयनादिरूपो जिनपूजाविषयोऽपि सावद्यव्यापारश्चैत्यवन्दनावसरे प्रत्यषेध्यत, जिनपूजां कृत्वा तृतीया नैषेधिकी विधीयत इति भावः । तथा सर्वत्रिकाणि सूत्रकारेण न विवृतानि, किन्तु विषमतराणि कानिचिदेवाऽस्माभिश्चाविवृतानामपि संक्षेपेण स्वरूपं निरूप्यते, २-यथा तिस्रः प्रदक्षिणा ज्ञानादित्रयाराधनाय जिनप्रतिमादेर्दक्षिणभागादारभ्य
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy