SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ १-देवतत्त्वम् गा-२४ चक्रे० : अथार्हद्विम्बं प्रतिष्ठाय किं कार्यमित्याहुः देव० : अथ प्रस्तुतबिम्बस्थापनानन्तरं किं विधेयमित्याह - कुसुमक्खयधूवेहिं दीवयवासेहिं सुंदरफलेहिं । पूंया घयसलिलेहिं अट्ठविहा तस्स कव्वा ।। २४ ।। चक्रे० : सुगमा, नवरं 'अट्ठविह'त्ति अष्टविधेत्युपलक्षणम्, वस्त्राऽऽभरणाद्यैरनेकधापि पूजा भवति, सा च तस्यार्हद्विम्बस्य प्राग्भवे नलदमयन्तीभ्यामिव कुसुमाद्यैरनेकप्रकारापि कार्येत्यर्थः । । २४ । देव० : इह सुन्दरशब्दः फलशब्देन सह समस्तोऽपि पूजाप्रकारेषु शेषेष्वपि योज्यः, अष्टौ विधाः प्रकारा यस्यां साष्टविधा पूजा, तस्य जिनबिम्बस्य कर्तव्येति सम्बन्धः, काभिः पुनस्ताभिरित्याह- १- कुसुमानि जलस्थलजानि मनोहरपुष्पाणि तैर्बिम्बाङ्गोपाङ्गेषु विचित्ररचनादि कार्यम्, २-अक्षता अखण्डोज्ज्वलाः शालितण्डुलादयस्तैर्दर्पणाद्यष्टमङ्गललिखनम्, ३-धूपाः प्रचुरपरिमलोद्गारा अगर्वादिरूपास्तदुत्क्षेपणम्, ४-दीपास्तमःस्तोमैकप्रतीपास्तदुद्बोधनम्, सौरभ्यवासिताशाश्चन्दनचूर्णादयस्तैविच्छुरणम् ६ - फलानि माधुर्यपेशलानि ५- वासाः नारङ्गादीनि तड्ढौकनम्, ७- घृतेत्युपलक्षणं सर्वसरससारनैवेद्योपहारः ८- सलिलानि मधुर निर्मलानि तदुपन[य]नमिति, सर्वत्र व्यक्त्यपेक्षया बहुवचनमिह च राजप्रश्नीयोपाङ्गादिष्वधिका केचिदुपलभ्यन्ते, ते तु यथासम्भवमेतेष्वेवान्तर्भावयितव्या इति गाथार्थः ।। २४ ।। * अभिधानराजेन्द्रकोषे 'चेइय' शब्दे ३ * अपि प्रकाराः : जिनप्रतिमापूजाविधिमाह ३५ कुसुमऽक्खयधूवेहिं दीवयवासेहिं सुंदरफलेहिं । पूया घयसलिलेहिं अट्ठविहा तस्स कायव्वा ।। कुसुमाक्षतधूपैः पुष्पशाल्याद्यखण्डतण्डुलकृष्णागुरुसारधूपैः, दीपः प्रदीपो, गन्धाः सुगन्धिसारद्रव्य १. पूआ P.K, २. सपर्या M. ३. पुनरष्टभिर्विधाभिरित्याह T, B, C, ४. जलस्थलजानि नीरक्रयपरिगृहितानि तैर्विच्छित्तिवैचित्र्यम्, A, चम्पकशतपत्रिकादीनि T,B,C, ५. धूपाश्च कर्पूरागरुचन्दनादयस्तैस्तथादीपाश्च प्रतीता C, B ६. वासाश्च तैस्तथा पक्त्रिमापक्त्रिमभेदैः सुन्दरफलैर्नालिकेराम्रबीजपूरादिभिरिह च कृतसमासोऽपि सुन्दरशब्दः प्रत्येकमभिसम्बध्यते, तथा घृतानि च सपींषि सलिलानि च जलानि तैः सर्वत्र व्यक्त्यपेक्षया बहुवचनमिह च क्वचिद् बहुतरा अपि प्रकारा उपलभ्यन्ते T,B,C
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy