SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ दर्शनशद्धिप्रकरणम - सम्यक्त्वप्रकरणम् चक्रे० : अधिकारिणा निर्मापिते जिनगेहे किं कार्यमित्याहुः - देव० : अधिकारिणा निर्मापिते जिनवेश्मनि यद्विधेयं तदाह - निप्फाइऊण एवं जिणभवणं सुंदरं तहिं बिंबं । विहिकारियमह विहिणा पइट्ठविज्जा लहुं चेव ।।२२।। चक्रे० : सुगमैव, नवरमयं जिनबिम्बकारणविधिः - सम्मान्य सूत्रधारं प्राग्वस्त्राद्यैः विभवोचितम् । मूल्यमय विलोभस्य तस्य शुद्धेन चेतसा ।। [ ] प्रतिष्ठाविधिः संक्षेपतश्चायम् - चैत्यान्तः शोभने लग्नेऽधिवास्योचितपूजया । । स्थाप्यं बिम्बं जिनेन्द्रस्य पञ्चमङ्गलपूर्वकम् ।। [ ] ।।२२।। देव० : निष्पाद्य निर्माप्यैवमुक्तनीत्या जिनभवनम्, ततः सुन्दरं मनोनयनानन्ददायि तत्र जिनभवने बिम्बं मृदूपलपित्तलरूप्यस्वर्णरत्नादिमयी प्रतिमां प्रक्रमाज्जिनस्यैव विधिकारितं शास्त्रनीतिविधापितम्, विधिश्च यथा - जिणबिंबकारणविहि काले संपूइउण कत्तारं । विहवोचियमूल्लप्पण-मणहस्स सुहेण भावेण ।। [पञ्चवस्तु-११३०] अस्या लेशतो व्याख्या-काले तदुचितावसरे सम्पूज्य सन्मानयित्वा कर्तारं सूत्रधारं विभवोचितमूल्यं स्वसमृद्ध्यनुरूपवेतनमनघस्यानौचित्येन द्रव्याग्राहकत्वेन लोभादिदोषरहितस्य शुभेन भावेनोदारतया प्रवर्धमानप्रशस्ताध्यवसायेनेति ।। तारिसयस्साभावे तस्सेव हियत्थमुज्जओ नवरं । नियमेइ बिंबमुल्लं जं उचियं कालमासज्ज ।। [पञ्चवस्तु-११३१] तादृशस्येत्यनघस्य तस्यैव हितार्थमुद्यतो मा बिम्बार्थकल्पितद्रव्यभक्षणतः संसारगर्ते निपतेदसाविति नियमयति बिम्बमूल्यम्, यथेयता द्रव्येण यद्विम्बं विधातव्यं भवतेति, कालमासाद्येति क्वचित्काले कियद् बिम्बमूल्यं स्यादिति । १. द्रव्येणेयद बिम्बं A २. क्वचिदपि काले कियदपि बिम्बमूल्यं A
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy