SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ १-देवतत्त्वम् गा-२१ देव० : आराधनया श्रद्धानानुष्ठानरूपसेवया तस्या आज्ञायाः किम् ? पुण्यम्, विराधनयाऽऽराधनाविपरीतया पुनः पापं दुष्कृतं जायत इति शेषः । आज्ञाया एव धर्मनिमित्ततां प्रति पुरस्करणायाह- एतदनन्तरोक्तमाज्ञाराधनाविराधनारूपं विधिनिषेधद्वारेण धर्मरहस्यं कुशलकर्मगुह्यं विज्ञेयं ज्ञातव्यं बुद्धिमद्धिर्यतः - पारलौकिकेषु विधिष्वाज्ञात एव प्रवृत्तिनिवृत्ती भवतः, प्रत्यक्षादीनां तत्राप्रवृत्तेः, अनाप्तवचनस्य च व्यभिचारित्वादिति गाथार्थः । । २० ।। * पञ्चाशके- ७/३ * आज्ञाप्रतिबद्धत्वमेव धर्मस्य दर्शयन्नाह - आराहणाइ तीए पुण्णं पावं विराहणाए उ । एयं धम्मरहस्सं विण्णेयं बुद्धिमंतेहिं ।। आराधनया पालनया । पञ्चमीसप्तम्योर्वैकवचनं व्याख्येयम्, तस्या आज्ञायाः पुण्यं शुभकर्म भवति । पुण्यं च धर्म एव तद्धेतुकत्वात्पुण्यस्य । पापमशुभं कर्म भवति विराधनया तु बाधया पुनः । आज्ञाया एव धर्मनिमित्ततां प्रति पुरस्करणायाह-एतदनन्तरोक्तमाराधनाविराधनारूपं विधिनिषेधद्वारेण धर्मरहस्यं कुशलकर्मगुह्यं विज्ञेयं ज्ञातव्यं बुद्धिमद्भिः पण्डितैः, यतः पारलौकिकेषु विधिष्वाज्ञात एव प्रवृत्तिनिवृत्ती भवतः, प्रत्यक्षादीनां तत्राप्रवृत्तेः, अनाप्तवचनस्य च व्यभिचारित्वादिति, आह चयस्मात्प्रवर्तकं भुवि निवर्तकं चान्तरात्मनो वचनम् । धर्मश्चैतत्संस्थो मौनीन्द्रं चैतदिह परमम् ।। इति गाथार्थः ।। ३।। चक्रे० : सम्प्रति प्रस्तुतमधिकारिणमेवाहुः - देव : सम्प्रति प्रस्तुतमधिकारिणमाह - - २९ अहिगारी उ गिहत्थो सुहसयणो वित्तसंजुओ कुल । अक्खुद्द धिइबलिओ मइमं तह धम्मरागी य ।। २१ । । चक्रे० : सुगमा, नवरमक्षुद्रोऽकृपणोऽक्रूरो वा । धृतिबलिको धृतिबलहीनो हि पश्चात्तापेन धर्मं हन्यात् ।।२१।। देव० : अधिकारी तु योग्यः पुनर्जिनभवनविधौ गृहस्थोऽगारी, न तु साधुः, विशेषप्रतिज्ञारूढत्वात्तस्य, यदुक्तम् - -
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy