________________
६
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
जयणा उ धम्मजणणी जयणा धम्मस्स पालणी चेव ।
तव्वुड्डीकरी जयणा एगंतसुहावहा जयणा ।। [पञ्चा० ७-२९, ३०] ___ इति चशब्दाः समुच्चयार्थाः, इह भूम्यादीनि जिनभवनविधेरङ्गानीत्यङ्गाङ्गिनोरभेदोपचाराज्जिनभवनविधिः शुद्धा भूमिरित्यादि सामानाधिकरण्येनोक्तमिति गाथार्थः ।।१७।।
* पञ्चवस्तौ-१११२ *
तत्र -
जिणभवणकारणविही सुद्धा भूमी दलं च कट्ठाई ।
भिअगाणऽतिसंधाणं सासयवुट्टी समासेणं ।। जिनभवनकारणविधिरयं द्रष्टव्यः, यदुत - शुद्धा भूमिर्वक्ष्यमाणया शुद्ध्या, तथा दलं च काष्ठादि शुद्धमेव, तथा भृतकानतिसन्धानं कर्मकराव्यंसनम्, तथा स्वाशयवृद्धिः शुभभाववर्द्धनं समासेनैष विधिरिति द्वारगाथासमासार्थः ।।१११२।।
* पञ्चाशके-७/९* एवं जिनभवनकारणाधिकारी सप्रसङ्गोऽभिहितोऽथाधिकृतमेव जिनभवनविधिमुपदर्शयन्नाह -
जिणभवणकारणविही सुद्धा भूमी दलं च कट्ठाई ।
भियगाणइसंधाणं सासयवुडी य जयणा य ।। जिनभवनकारणविधिरुक्तशब्दार्थः । किंविध इत्याह-शुद्धा निर्दोषा, काऽसौ ? भूमिः क्षेत्रम्। तथा दलं चोपादानकारणम् । किंभूतम् ? काष्ठादि दारुपाषाणप्रभृति शुद्धमिति प्रक्रमः । तथा भृतकानां कर्मकराणामनतिसन्धानमवञ्चनं भृतकानतिसन्धानम् । तथा स्वाशयस्य शोभनाध्यवसायस्य, स्वकीयाध्यवसायस्य वा, वृद्धिर्वर्धनं स्वाशयवृद्धिः । सा च । तथा यतना च यथाशक्ति गुरुदोषत्यागेतरदोषाश्रयणम् । सा च । चशब्दाः समुच्चयार्थाः । इह भूम्यादीनि जिनभवनविधेरङ्गानीत्यङ्गाङ्गिनोरभेदोपचाराज्जिनभवनविधिर्भूम्यादीनीति समानाधिकरणेनोक्तमिति द्वारगाथासमासार्थः ।।९।।