SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ दर्शनशद्धिप्रकरणम - सम्यक्त्वप्रकरणम् देव० : अत्यन्तं सर्वात्मना दग्धे बीजे नाङ्कुरो यथा भवति, शुक्लध्यानानलेन तथा दग्धे कर्मबीजे न रोहति भवाङ्करः । अयमभिप्रायः - दग्धकर्मबीजत्वान्न रोहन्तीत्यरोहन्त इति गाथात्रयार्थः ।।१४।। * श्रावकप्रज्ञप्तौ-३९६ * दडंमि जहा बीए न होइ पुण अंकुरस्स उप्पत्ती । तह चेव कम्मबीए भवंकुरस्सावि पडिकुट्ठा ।। दग्धे यथा बीजे शाल्यादौ न भवति पुनरङ्करस्योत्पत्तिः शाल्यादिरूपस्य तथैव कर्मबीजे दग्धे सति भवाङ्कुरस्याप्युत्पत्तिः प्रतिकुष्टा निमित्ताभावादिति ।।३९६ ।। चक्रे० : सम्प्रत्यस्यैव भगवतः सर्वथाऽऽराध्यत्वोपदेशमाहुः - देव० : सम्प्रत्यस्यैव भगवतः सर्वथाऽऽराध्यत्वोपदेशमाह - तं नमह तं पसंसह तं झायह तस्स सरणमल्लियह । मा किणह कणयमुल्लेण पित्तलं इत्तियं भणिमो ।।१५।। चक्रे० : तमरिहन्तारमर्हन्तमरोहन्तं वा नमत शिरसा, तं प्रशंसत स्तुत वचसा, तं ध्यायत पिण्डस्थपदस्थरूपातीततया मनसा । तस्येति द्वितीयास्थाने षष्ठी, ततश्च रागादिभीरवस्तं शरणं त्रातारमालीयध्वमाश्रयत । मुहस्तच्छब्दोपादानं तत्रैव देवबुद्धिः कार्येत्यादरख्यापनार्थम् । किमित्येवमित्याहुः - मा क्रीणीत कनकमूल्येन पित्तलामेतावद्भणामः। अयमभिप्राय: - वस्तूनां नामवर्णादिसाम्येऽपि महदन्तरमिति न तत्र भ्रान्तितः कनकमूल्यतुल्यं नमनप्रशंसनध्यानादिभिः पित्तलातुल्यसरागदेवानाराधयतेत्युपदेशसर्वस्वम् । तथा च - अक्कसुरहीण छीरं कक्कररयणाई पत्थरा दो वि । एरंडकप्परुक्खतरुणो पुण अंतरं गरुयं ।। [ ] पंथसरिसा कुपंथा सुवन्नसरिसाणि पित्तलाईणि । धम्मसरिसो अहम्मो कायव्वो नित्थ मइमोहो ।। [ ] इति गाथार्थः ।।१५।। देव० : तं देवं नमत शिरसा, तं प्रशंसत स्तुत वचसा, तं ध्यायत पिण्डस्थपदस्थरूपातीतरूपतया मनसा, तस्येति सुपां सुपो भवन्तीति न्यायात् षष्ठ्याः स्थाने द्वितीया, ततश्च १. भवति T,B,C २. अरिहन्तारमर्हन्तमरोहन्तं वा नमत T,B,C
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy